उद्योगपर्व
अध्यायः ४१
धृतराष्ट्र उवाच।
अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते।
तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ।।
विदुर उवाच।
धृतराष्ट्र कुमारो वै यः पुराणः सनातनः।
तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ।।
स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्।
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ।।
धृतराष्ट्र उवाच।
किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः।
त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ।।
विदुर उवाच।
शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे।
कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ।।
ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत्।
न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ।।
धृतराष्ट्र उवाच।
ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् ।
कथमेतेन देहेन स्यादिहैव समागमः ।।
वैशंपायन उवाच।
चिन्तयामास विदुरस्तभृषिं शंसितव्रतम्।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ।।
स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा ।
सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत्।।
भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः ।
यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि ।।
यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत्।।
लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ।
विषहेरन्भयामर्षौ श्रुत्पिपासे मदोद्भवौ ।
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
सनत्सुजातपर्वणि एकचत्वारिंशोऽध्यायः ।।