उद्योगपर्व
अध्यायः ३४
धृतराष्ट्र उवाच।
जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ।।
तस्माद्यथावद्विदुर प्रशाधि
प्रज्ञापूर्वं सर्वमजातशत्रोः।
यन्मन्यसे पथ्यमदीनसत्व
श्रेयस्करं ब्रूहि तद्वै कुरूणाम् ।।
पापाशङ्की पापमेवानुपश्यन्
पृच्छामि त्वां व्याकुलेनात्मनाहम् ।
कजे तन्मे ब्रूहि तत्पं यथाव-
न्मनीषितं सर्वमजातशत्रोः ।।
विदुर उवाच।
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्।
नापृष्टः कस्यचिद्ब्रूयाद्यः स नेच्छेत्पराभवम् ।।
तस्माद्वक्ष्यामि ते राजन्हितं यत्स्यान्कुरून्प्रति।
वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ।।
मिथ्योपेतानि कर्माणि सिद्ध्येतादीनि भारत।
अनुपायप्रयुक्तानि मा स्म ते....मनः कृथाः ।।
तथैव योगविहितं यत्तु कर्म न सिध्यति।
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ।।
अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु।
संप्रधार्य च कुर्वीत सहसा न समाचरेत् ।।
अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम्।
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ।।
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये।
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ।।
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति।
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ।।
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम्।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ।।
भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम्।
अन्नाभिलाषी ग्रसते नानुबन्धमवेक्षते ।।
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्।
हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ।।
वनस्पतेरपक्वानि फलानि प्रचिनोति यः।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ।।
यस्तु पक्वमुपादत्ते काले परिणतं फलम्।
फलाद्रसं स लभते बीजाच्चैव फलं पुनः ।।
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः।
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ।।
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ।।
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः।
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ।।
अनारभ्या भवन्त्यर्थाः केचिन्नित्यं यथाऽगताः ।
कृतः पुरुषकारोऽहि भवेद्येषु निरर्थकः ।।
` अनर्थे चैव निरतमर्थे चैव पराङ्भुखम्।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ।।
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ।।
कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् ।
क्षिप्रमारभते कर्तुं न दीर्घयति तादृशान् ।।
ऋजु पश्यति यः सर्वं चक्षुषा नु पिबन्निव ।
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ।।
सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः ।
अपक्वः पक्वसङ्काशो न तु शीर्येत कर्हिचित् ।।
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ।।
यस्मात्रस्यन्ति भूतानि मृगव्याधान्मृगा इव।
सागरान्तामपि महीं लब्ध्वा स परिहीयते ।।
पितृपैतामहं राज्यं प्राप्यापि स्वेन कर्मणा।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ।।
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः।
वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी ।।
अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः।
प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा।
य एव यत्नः क्रियते परराष्ट्रविमर्दने।
स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ।
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत्।
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ।।
अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः।
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ।।
सुव्याहृतानि महतां सुकृतानि ततस्ततः।
सञ्चिन्वन्धीर आसीत शिलाहारी शिलं यथा ।।
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ।।
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।
अथ या सुदुघा राजन्नैव तां वितुदन्त्यपि ।।
यदतप्तं प्रणमति न तत्सन्तापमर्हति।
यच्च स्वयं नतं दारु न तत्संनामयेद्बुधः ।।
एतयोपमया धीरः सन्नमेत बलीयसे।
इन्द्राय स प्रणमते नमते यो बलीयसे ।।
पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः।
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ।।
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ।।
मानेन रक्ष्यते धान्यमश्वान्रक्षेदनुक्रमात्।
अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ।।
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः।
अन्तेष्वपि हि जातानां वृत्तमेव विशिष्यते ।।
य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये ।
सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ।।
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात्।
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ।।
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः।
मदा एतेऽवलिप्तानामेत एव सतां दमाः ।।
असन्तोऽभ्यर्थिताः सद्भिः क्वचित्कार्ये कदाचन।
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ।।
गतिरात्मवतां सन्तः सन्त एव सतां गतिः ।
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ।।
जिता सभा वस्त्रवता मिष्टाशा गोमता जिता।
अध्वा जितो यानवता सर्वं शीलवता जितम् ।।
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति।
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ।।
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम्।
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ।।
संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा।
श्रुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ।।
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते।
जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते ।।
अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् ।
उत्तमानां तु मर्त्यानामवमानात्परं भयम् ।।
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।
ऐश्वर्यमदमत्तो हि नो पतित्वाऽवबुध्यते ।।
इन्द्रियौरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः ।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ।।
यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा ।
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ।।
अविजित्य य आत्मानममात्यान्विजिगीषते ।
अमित्रान्वा जितामात्यः सोऽवशः परिहीयते ।।
आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ।।
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ।।
रथः शरीरं पुरुषस्य राज-
न्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः।
तैरप्रमत्तः कुशली सदश्वै-
र्दान्तैः सुखं याति रथीव धीरः ।।
एतान्यनिगृहीतानि व्यापादयितुमप्यलम्।
अविधेया इवादान्ताः सरथं सारथिं हयम् ।।
अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः।
इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ।।
धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः ।
श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते ।।
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः।
इन्द्रियाणामनैश्वर्यादैश्वार्याद्भूश्यते हि सः ।।
आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः ।
आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ।।
बन्धुरात्मात्मनस्तस्य येनैवात्मात्मना जितः।
स एव नियतो बन्धुः स एव नियतो रिपुः ।।
क्षुद्राक्षेणेव जालेन झपावपिहितावुरू।
कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः ।।
समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति।
स वै संभृतसंभारः सततं सुखमेधते ।।
यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मनोमयान्।
जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ।।
दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः।
इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ।।
असंत्यागात्पापकृतामपापां-
स्तुल्यो दण्डः स्पृशते मिश्रभावात्।
शुष्केणार्द्रं दह्यते मिश्रभावा-
त्तस्मात्पापैः सह सन्धिं न कुर्यात् ।।
निजानुत्पततः शत्रून्पश्च पञ्चप्रयोजनान्।
यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ।।
अनसूयार्जवं शौचं सन्तोषः प्रियवादिता।
दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ।।
आत्मज्ञानमानायासस्तितिक्षा धर्मनित्यता।
वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ।।
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान्।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ।।
हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् ।
शुश्रूपा तु वलं स्त्रीणां क्षमा गुणवतां बलम् ।।
वाक्संयमो हि नृपते सुदुष्करतमो मतः।
अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् ।।
अभ्यावहति कल्याणं विविधं वाक् सुभाषिता ।
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ।।
रोहते सायकैर्विद्धं वनं परशुना हतम्।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्।।
कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः।
वाक्छशल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ।।
वाक्सायका वदनान्निष्पतन्ति
यैराहतः शोचति रात्र्यहानि।
परस्य नामर्मसु ते पतन्ति
तान्पण्डितो नावसृजेत्परेभ्यः ।।
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति।।
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते।
अनयो नयसङ्काशो हृदयान्नापसर्पति ।।
सेयं बुद्धिः परीता ते पुत्राणां भरतर्षभ ।
पाण्डवानां विरोधेन न चैनानवबुध्यसे ।।
राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत्।
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ।।
अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः।
तेजसा प्रज्ञया चैव युक्तो धर्मर्थतत्त्ववित् ।।
अनुक्रोशादानृशंस्याद्योऽसौ धर्मभृतां वरः।
गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
प्रजागरपर्वणि चतुस्त्रिंशोऽध्यायः ।।