उद्योगपर्व
अध्यायः २७
सञ्जय उवाच।
धर्मनित्या पाण्डव ते विचेष्टा
लोके श्रुता दृश्यते चापि पार्थ ।
महाश्रावं जीवित चाप्यनित्यं
संपश्य त्वं पाण्डव मा व्यनीनशः ।।
नचेद्भागं कुरवोऽन्यत्र युद्धा-
त्प्रयच्छेरंस्तुभ्यमजातशत्रो।
भैक्षचर्यामन्धकवृष्णिराज्ये
श्रेयो मन्ये न तु युद्धेन राज्यम् ।।
अल्पकालं जीवितं यन्मनुष्ये
महास्रावं नित्यदुःखं चलं च।
भूयश्च तद्यशसो नानुरूपं
तस्मात्पापं पाण्डव मा कृथास्त्वम् ।।
कामा मनुष्यं प्रसजन्त एते
धर्मस्य ये विघ्नमूलं नरेन्द्र ।
पूर्वं नरस्तान्मतिमान्प्रणिघ्नन्
लोके प्रशंसां लभतेऽनवद्याम् ।।
निबन्धनी ह्यर्थतृष्णेह पार्थ
तामिच्छतां बाध्यते धर्म एव।
धर्मं तु यः प्रणृणीते स बुद्धः
कामे गृध्नो हीयतेऽर्थानुरोधात् ।।
धर्मं कृत्वा कर्मणां तात मुख्यं
महाप्रतापः सवितेव भाति।
हीनो हि धर्मेण महीमपीमां
लब्ध्वा नरः सीदति पापबुद्धिः ।।
वेदोऽधीतश्चरितं ब्रह्मचर्यं
यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् ।
परं स्थानं मन्यमानेन भूय
आत्मा दत्तो वर्षपूगं सुखेभ्यः ।।
सुखप्रिये सेवमानोऽतिवेलं
योगाभ्यासे यो न करोति कर्म।
वित्तक्षये हीनसुखोऽतिवेलं
दुःखं शेते कामवेगप्रणुन्नः ।।
एवं पुनर्ब्रह्मचर्याऽप्रसक्तो
हित्वा धर्मं यः प्रकरोत्यधर्मम्।
अश्रद्दधत्परलोकाय मूढो
हित्वा देहं तप्यते प्रेत्य मन्दः ।।
न कर्मणां विप्रणाशोऽस्त्यमुत्र
पुण्यानां वाऽप्यथवा पापकानाम् ।
पूर्वं कर्तुर्गच्छति पुण्यपापं
पश्चात्त्वेनमनुयात्येव कर्ता ।।
न्यायोपेतं ब्राह्मणेभ्योऽथ दत्तं
श्रद्धापूतं गन्धरसोपपन्नम् ।
अन्वाहार्येषूत्तमदक्षिणेषु
तथारूपं कर्म विख्यायते ते ।।
इह क्षेत्रे क्रियते पार्थ कार्यं
न वै किंचित्क्रियते प्रेत्य कार्यम् ।
कृतं त्वया पारलोक्यं च कर्म
पुण्यं महत्सद्भिरतिप्रशस्तम् ।।
जहाति मृत्युं च जरां भयं च
न क्षुत्पिपासे मनसोऽप्रियाणि।
न कर्तव्यं विद्यते तत्र किंचि-
दन्यत्र वै चेन्द्रियप्रीणनाद्धि ।।
एवंरूपं कर्मफलं नरेन्द्र
मातापित्रोर्हृदयस्याप्रियेण।
त्यज क्रोधं पाण्डव हर्षजं च
लोकावुभौ मा प्रहासीश्चिराया ।।
अन्तं गत्वा कर्मणां या प्रशंसा
सत्यं दमं चार्जवमानृशंस्यम् ।
अश्वमेधं राजसूयं तथेष्ट्वा
पापस्यान्तं कर्मणो मा पुनर्गाः ।।
तच्चेदेवं द्वेषरूपेण पार्थाः
करिष्यध्वं कर्म पापं चिराय।
निवसध्वं वर्षपूगान्वनेषु
दुःखं वासं पाण्डवा धर्म एव ।।
प्रव्रज्यया यातयित्वा पुरस्ता-
दात्माधीनं यद्बलं ते तदाऽसीत्।
नित्यं च वश्याः सचिवास्तवेमे
जनार्दनो युयुधाश्च वीरः ।।
मत्स्यो राजा रुक्मरथः सपुत्रः
प्रहारिभिः सहपुत्रैर्विराटः।
राजानस्ते ये विजिताः पुरस्ता-
त्त्वामेव ते संश्रयेयुः समस्ताः ।।
महासहायः प्रतपन्बलस्थः
पुरस्कृतो वासुदेवार्जुनाभ्याम्।
वरान्हनिष्यन्द्विषतो रङ्गमध्ये
व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ।।
बलं कस्माद्वर्धयित्वा परस्य
निजान्कस्मात्कर्शयित्वा सहायान्।
निरुष्य कस्माद्वर्षपूगान्वनेषु
युयुत्ससे पाण्डव हीनकाले।।
अप्राज्ञो वा पाण्डव युद्ध्यमानो-
ऽधर्मज्ञो वा भूतिमथोऽभ्युपैति।
प्रज्ञावान्वा बुद्ध्यमानोऽपि धर्मं
संस्तम्भाद्वा सोऽपि भूतेरपैति ।।
नाधर्मे ते धीयते पार्थ बुद्धि-
र्न संरम्भात्कर्म चकर्थ पापम् ।
आत्थ किं तत्कारणं यस्य हेतोः
प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ।।
अव्याधिजं कटुकं शीर्षरोगि
यशोमुषं पापफलोदयं वा।
सतां पेयं यन्न पिबन्त्यसन्तो
मन्युं महाराज पिब प्रशाम्य ।।
पापानुबन्धं को नु तं कामयेत
क्षमैव ते ज्यायसी नोत भोगाः ।
यत्र भीष्मः शान्तनवो हतः स्या-
द्यत्र द्रोणः सहपुत्रो हतः स्यात् ।।
कृपः शल्यः सौमदत्तिर्विकर्णो
विविंशतिः कर्णदुर्योधनौ च।
एतान्हत्वा कीदृशं तत्सुखं स्या-
द्यद्विन्देथास्तदनुब्रूहि पार्थ ।।
लब्ध्वाऽपीमां पृथिवीं सागरान्तां
जरामृत्यू नैव हि त्वं प्रजह्याः।
प्रियाप्रिये सुखदुःखे च राज-
न्नैवं विद्वान्नैव युद्धं कुरु त्वम् ।।
अमात्यानां यदि कामस्य हेतो-
रेवं युक्तं कर्म चिकीर्षसि त्वम्।
अपक्रमेः स्वं प्रदायैव तेषां
मागास्त्वं वै देवयानात्पथोऽद्य ।।
।। इति श्रीमन्महाभारते उद्योगपर्वणि
सञ्जययानपर्वणि सप्तविंशोऽध्यायः ।।