उद्योगपर्व

अध्यायः २२

Udyoga Parva (Sanskrit) · Adhyaya 22
अक्षर का आकार

धृतराष्ट्र उवाच।

प्राप्तानाहुः सञ्जय पाण्डुपुत्रा-
नुपप्लव्ये तान्विजानीहि गत्वा।
अजातशत्रुं च सभाजयेथा
दिष्ट्या वनाद्ग्राममुपस्थितस्त्वम् ।।

सर्वान्वदेः सञ्जय स्वस्तिमन्तः
कृच्छ्रं वासमतदर्हा निरुष्य।
तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं
मिथ्यापेतानामुपकारिणां सताम् ।।

नाहं क्वचित्सञ्जय पाण्डवानां
मिथ्यावृत्तिं कांचन जात्वपश्यम्।
सर्वां श्रियं ह्यात्मवीर्येण लब्धां
पर्याकार्षुः पाण्डवा मह्यमेव ।।

दोषं ह्येषां नाध्यगच्छं परीच्छ-
न्सूक्ष्मं कंचिद्येन गर्हेय पार्थान्।
धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं
सुखप्रिये नानुरुध्यन्ति कामात् ।।

धर्मं शीतं क्षुत्पिपासे तथैव
निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्।
धृत्या चैव प्रज्ञया चाभिभूय
धर्मार्थयोगान्प्रयतन्ति पार्थाः ।।

र्दुर्योधनात्क्षुद्रतराच्च कर्णात् ।।

` पुत्रो मह्यं मृत्युवशं जगाम
दुर्योधनः सञ्जय रागबुद्धिः।'
तेषां हीमौ हीनसुखप्रियाणां
महात्मनां संजनयतो हि तेजः ।।

उत्थानवीर्यः सुखमेधमानो
दुर्योधः सुकृतं मन्यते तत्।
तेषां भागं यच्च मन्येत बालः
शक्यं हर्तुं जीवतां पाण्डवानाम् ।।

यस्यार्जुनः पदवीं केशवश्च
वृकोदरः सात्यकोऽजातशत्रोः ।
माद्रीपुत्रौ सृञ्जयाश्चापि यान्ति
पुरा युद्धात्साधु तस्य प्रदानम् ।।

सह्येवैकः पृथिवीं सव्यसाची
गाण्डीवधन्वा प्रणुदेद्रथस्थः।
तथा जिष्णुः केशवोऽप्यप्रधृष्यो
लोकत्रयस्याधिपतिर्महात्मा ।।

तिष्ठेत कस्तस्य मर्त्यः पुरस्ता-
द्यः सर्वलोकेषु वरेण्य एकः।
पर्जन्यघोषान्प्रवपञ्शरौघा-
न्पतङ्गसङ्घानिव शीघ्रवेगान् ।।

दिशं ह्युदीचीमपि चोत्तरान्कुरून्
गाण्डीवधन्वैकरथो जिगाय।
धनं चैपामाहरत्सव्यसाची
सेनानुगान्द्रविडांश्चैव चक्रे ।।

यश्चैव देवान्खाण्डवे सव्यसाची
गाण्डीवधन्वा प्रजिगाय सेन्द्रान्।
उपाहरत्पाण्डवो जातवेदसे
यशो मानं वर्धयन्पाण्डवानाम् ।।

गदाभृतां नास्ति समोऽत्र भीमा-
द्धस्त्यारोहो नास्ति समश्च तस्य।
रथेऽर्जुनादाहुरहीनमेनं
बाह्वोर्वलेनायुतनागवीर्यम् ।।

सुशिक्षितः कृतवैरस्तरस्वी
दहेत्क्षुद्रांस्तरसा धार्तराष्ट्रान् ।
सदाऽत्यमर्षी न वलात्स शक्यो
युद्धे जेतुं वासवेनापि साक्षात् ।।

सुतेजसौ वलिनौ शीघ्रहस्तौ
सुशिक्षितौ भ्रातरौ फाल्गुनेन।
श्येनौ यथा पक्षिपूगान्रुजन्तौ
माद्रीपुत्रौ शेपयेतां न शत्रून् ।।

एतद्बलं पूर्णमस्माकमेवं
यत्सत्यं तान्प्राप्य नास्तीति मन्ये।
तेषां मध्ये वर्तमानस्तरस्वी
धृष्टद्युम्नः पाण्डवानामिहैकः ।।

सहामात्यः सोमकानां प्रबर्हः
सन्त्यक्तात्मा पाण्डवार्थे श्रुतो मे।
अजातशत्रुं प्रसहेत कोऽन्यो
येषां स स्यादग्रणीर्वृष्णिसिंह ।।

सहोषितश्चरितार्थो वयस्थो
मात्स्येयानामधिपो वै विराटः।
स वै सपुत्रः पाण्डवार्थे च शश्व-
द्युधिष्ठिरे भक्त इति श्रुतं मे ।।

अवरुद्धा रथिनः केकयेभ्यो
महेष्वासा भ्रातरः पञ्च सन्ति।
केकयेभ्यो राज्यमाकाङ्क्षमाणा
युद्धार्थिनश्रानुवसन्ति पार्थान् ।।

सर्वांश्च वीरान्पृथिवीपतीनां
समागतान्पाण्डवार्थे निविष्टान्।
शूरानहं भक्तिमतः शृणोमि
प्रीत्या युक्तान्संश्रितान्धर्मराजन् ।।

गिर्याश्रया दुर्गनिवासिनश्च
योधाः पृथिव्यां कुलजातिशुद्धाः।
म्लेच्छाश्च नानायुधवीर्यवन्तः
समागताः पाण्डवार्थे निविष्टाः ।।

पाण्ड्यश्च राजा समितीन्द्रकल्पो
योधप्रवीरैर्बहुभिः समेतः।
समागतः पाण्डवार्थे महात्मा
लोकप्रवीरोऽप्रतिवीर्यतेजाः ।।

अस्त्रं द्रोणादर्जुनाद्वासुदेवा-
त्कृपाद्भीष्माद्येन कृतं शृणोमि।
यं तं कार्ष्णिप्रतिममाहुरेकं
स सात्यकिः पाण्डवार्थे निविष्टः ।।

उपाश्रिताश्चेदिकरूशकाश्च
सर्वोद्योगैर्भूमिपालाः समेताः।
तेषां मध्ये सूर्यमिवातपन्तं
श्रिया वृतं चेदिपतिं ज्वलन्तम् ।।

अस्तम्भनीयं युधि मन्यमान्यो
ज्यां कर्षतां श्रेष्ठतमं पृथिव्याम् ।
सर्वोत्साहं क्षत्रियाणां निहत्य
प्रसह्य कृष्णस्तरसा संममर्द ।।

यशोमानौ वर्धयन्पाण्डवानां
पुराऽभिनच्छिशुपालं समीक्ष्य।
यस्य सर्वे वर्धयन्ति स्म मानं
करूशराजप्रमुखा नरेन्द्राः।।

तमसह्यं केशवं तत्र मत्वा
सुग्रीवयुक्तेन रथेन कृष्णम्।
संप्राद्रवंश्चेदिपतिं विहाय
सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये।।

यस्तं प्रतीपस्तरसा प्रत्युदीया-
दाशंसमानो द्वैरथे वासुदेवम् ।
सोऽशेत कृष्णेन हतः परासु-
र्वातेनेवोन्मथितः कर्णिकारः ।।

पराक्रमं मे यदवेदयन्त
तेषामर्थे सञ्जय केशवस्य।
अनुस्मरंस्तस्य कर्माणि विष्णो-
र्गावल्गणे नाधिगच्छामि शान्तिम् ।।

न जातु ताञ्छत्रुरन्यः सहेत
येषां स स्यादग्रणीर्वृष्णिसिंहः ।
प्रवेपते मे हृदयं भयेन
श्रुत्वा कृष्णावेकरथे समेतौ ।।

न चेद्गच्छेत्सङ्गरं मन्दबुद्धि-
स्ताभ्यां लभेच्छर्म तदा सुतो मे।
नो चेत्कुरून्सञ्जय निर्दहेता-
मिन्द्राविष्णू दैत्यसेनां यथैव ।।

मते हि मे शक्रसमो धनञ्जयः
सनातनो वृष्णिवीरश्च विष्णुः।
धर्मारामो ह्रीनिषेवस्तरस्वी
कुन्तीपुत्रः पाण्डवोऽजातशत्रुः ।।

दुर्योधनेन निकृतो मनस्वी
नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् ।
नाहं तथा ह्यर्जुनाद्वासुदेवा-
द्भीमाद्वाऽहं यमयोर्वा बिभेमि ।।

यथा राज्ञः क्रोधदीप्तस्य सूत
मन्योरहं भीततरः सदैव ।
महातपा ब्रह्मचर्येण युक्तः
सङ्कल्पोऽयं मानसस्तस्य सिद्ध्येत् ।।

तस्य क्रोधं सञ्जयाहं समीक्ष्य
स्थाने जानन्भृशमस्म्यद्य भीतः।
स गच्छ शीघ्रं प्रहितो रथेन
पाञ्चालराजस्य चमूनिवेशनम् ।।

अजातशत्रुं कुशलं स्म पृच्छेः
पुनः पुनः प्रीतियुक्तं वदेस्त्वम्।
जनार्दनं चापि समेत्य तात
महामात्रं वीर्यवतामुदारम् ।।

अनामयं मद्वचनेन पृच्छे-
र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः ।
न तस्य किंचिद्वचनं न कुर्यात्
कुन्तीपुत्रो वासुदेवस्य सूत ।।

प्रियश्चैषामात्मसमश्च कृष्णो
विद्वांश्चैषां कर्मणि नित्ययुक्तः ।
समानीतान्पाण्डवान्सृञ्जयांश्च
जनार्दनं युयुधानं विराटम् ।।

न मूर्च्छयेद्यन्न च युद्धहेतुः ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
स़ञ्जययानपर्वणि द्वाविंशोऽध्यायः ।।