उद्योगपर्व

अध्यायः २०

Udyoga Parva (Sanskrit) · Adhyaya 20
अक्षर का आकार

वैशंपायन उवाच।

स च कौरव्यमासाद्य द्रुपदस्य पुरोहितः।
सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च ।।

सर्वकौशल्यमुक्त्वाऽऽदौ पृष्ट्वा चैवमनामयम्।
सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह ।।

सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः।
वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति ।।

धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ ।
तयोः समानं द्रविणं पैतृकं नात्र संशयः ।।

धृतराष्ट्रस्य ये पुत्राः प्राप्तं तैः पैतृकं वसु।
पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु ।।

वनं गतैः पाण्डवेयैर्विदितं वः पुरा यथा।
न प्राप्तं पैतृकं द्रव्यं धृतराष्ट्रेण यद्धृतम्।।

प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः ।
शेषवन्तो न शकिता नेतुं वै यमसादनम् ।।

पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः ।
छद्मनाऽपहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः ।।

तदप्यनुमतं कर्म यथा युक्तमनेन वै।
वासिताश्च महारण्ये वर्षाणीह त्रयोदश ।।

सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् ।
अरण्ये विविधाः क्लेशाः संप्राप्तास्तैः सुदारुणाः ।।

तथा विराटनगरे योन्यन्तरगतैरिव।
प्राप्तः परमसंक्लेशो यथा पापैर्महात्मभिः ।।

ते सर्वं पृष्ठतः कृत्वा तत्पूर्वं कर्म किल्विषम् ।
साम्नैव कुरुभिः सन्धिमिच्छन्ति कुरुपुङ्गवाः ।।

तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च।
अनुनेतुमिहार्हन्ति धार्तराष्ट्रं सुहृज्जनाः ।।

न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह।
अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् ।।

यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति।
स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते ।।

अक्षौहिण्यश्च सप्तैव धर्मपुत्रस्य सङ्गताः।
युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् ।।

अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः ।
सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ ।।

एकादशैताः पृतना एकतश्च समागताः ।
एकतश्च महाबाहुर्बहुरूपी धनञ्जयः ।।

यथा किरीटी सर्वाभ्यः सेनाभ्यो व्यतिरिच्यते।
एवमेव महाबाहुर्वासुदेवो महाद्युतिः ।।

बहुलत्वं च सेनानां विक्रमं च किरीटिनः।
बुद्धिमत्त्वं च कृष्णस्य बुद्ध्वा युध्येत को नरः ।।

ते भवन्तो यथाधर्मं यथासमयमेव च।
प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् ।।

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सञ्जययानपर्वणि विंशोऽध्यायः ।।