उद्योगपर्व

अध्यायः १९६

Udyoga Parva (Sanskrit) · Adhyaya 196
अक्षर का आकार

वैशंपायन उवाच।

तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः।
धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ।।

चेदिकाशिकरूशानां नेतारं दृढविक्रमम् ।
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ।।

विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् ।
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ।।

ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः।
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ।।

अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ।
अथ सैन्यं यथायोगं पूजयित्वा नरर्षभः ।।

दिदेश तान्यनीकानि प्रयाणाय महीपतिः।
तेषां युधिष्ठिरो राजा ससैन्यानां महात्मनाम् ।।

व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ।
स गजाश्वमनुष्याणां ये च शिल्पोपजीविनः ।।

अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः ।
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ।।

भीमं च युयुधानं च पाण्डवं च धनंजयम्।
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्टिरः ।।

भाण्डं समारोपयतां चरतां संप्रधावताम् ।
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पशत् ।।

स्वयमेव ततः पश्चाद्विराटद्रपदान्वितः।
अथापरैर्महीपालैः सह प्रायान्महीपतिः ।।

भीमधन्वायती सेना धृष्टद्युम्नेन पालिता।
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ।।

ततः पुनरनीकानि न्ययोजयत बुद्धिमान्।
मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिश्चयम् ।।

द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः ।
नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ।।

दश चाश्वसहस्राणि द्विसहस्त्राणि दन्तिनाम् ।
अयुतं च पदातीनां रथाः पञ्चशतं तथा ।।

भीमसेनस्य दुर्धर्षं प्रथमं प्रादिशद्बलम् ।
मध्यमे च विराटं च जयत्सेनं च पाण्डवः ।।

महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
वीर्यवन्तौ महात्मानौ युधामन्यूत्तमौजसौ ।।

अन्वयातां तदा मध्ये वासुदेवधनञ्जयौ ।
`तौ दृष्ट्वा पृथिवीपाला नष्टमित्येव मेनिरे।
अन्तरिक्षगताः सर्वे देवाः सेन्द्रपुरोगमाः '।।

बभूवुरतिसंरब्धाः कृतप्रहरणा नराः।
तेषां विंशतिसाहस्रा हयाः शूरैरधिष्ठिताः ।
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः ।।

पदातयश्च ये शूराः कार्मुकासिगदाधराः ।
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ।।

युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे ।
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ।।

तत्र नागसहस्राणि हयानामयुतानि च ।
तथा रथसहस्राणि पदातीनां च भारत ।।

चेकितानः स्वसैन्येन महता पार्थिवर्षभ ।
धृष्टकेतुश्च चेदीनां प्रणेता पार्थिवो ययौ ।।

सात्यकिश्च महेष्वासो वृष्णीनां प्रवरो रथः ।
वृतः शतसहस्रेण रथानां प्रमुदन्बली ।।

क्षत्रदेवब्रह्मदेवौ रथस्थौ पुरुषर्षभौ ।
जघनं पालयन्तौ च पृष्ठतोऽनुप्रजग्मतुः ।।

शकटापणवेशाश्च यानं युग्यं च सर्वशः ।
तत्र नागसहस्राणि हयानामयुतानि च ।
फल्गु सर्वं कलत्रं च यत्किंचित्कृशदुर्बलम् ।।

कोशसञ्चयवाहांश्च कोष्ठागारं तथैव च।
गजानीकेन संगृह्य शनैः प्रायाद्युधिष्ठिरः ।।

तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः।
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य वा विभुः ।।

रथा विंशतिसाहस्रा ये तेषामनुयायिनः ।
हयानां दश कोट्यश्च महतां किंकिणीकिनाम् ।।

गजा विंशतिसाहस्रा ईषादन्ताः प्रहारिणः।
कुलीना भिन्नकरटा मेघा इव विसर्पिणः ।।

षष्टिर्नागसहस्राणि दशान्यानि च भारत ।
युधिष्ठिरस्य यान्यासन्युधि सेना महात्मनः ।।

क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः ।
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ।।

एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः ।
यदाश्रित्याथ युयुधे धार्तराष्ट्रं सुयोधनम् ।।

ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः।
नर्दन्तः प्रययुस्तेषाणनीकानि सहस्रशः ।।

तत्र भेरीसहस्राणि शङ्खानामयुतानि च ।
न्यवादयन्त संहृष्टाः सहस्रायुतशो नराः ।।

।। इति श्रीमन्महाभारते
शतसाहस्र्यां संहितायां
वैयासिक्यां उद्योगपर्वणि अम्बोपाख्यानपर्वणि
षण्णवत्यधिकशततमोऽध्यायः ।।

।। समाप्तमम्बोपाख्यानपर्व ।। उद्योगपर्व च ।।

अस्यानन्तरं भीष्मपर्व भविष्यति
तस्ययमाद्य श्लोकः ।
जनमेजय उवाच।

कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः।
पार्थिवाः सुमहात्मानो नानादेशसमागताः ।।

इदं उद्योगपर्व कुंभघोणस्थेन टीo
आर्o कृष्णाचार्येण टीo आर्o
व्यासाचार्येण च मुंबय्यां
निर्णयसागरमुद्रायन्त्रे मुद्रापितम् ।
शकाब्दाः 1828 सन 1907