उद्योगपर्व
अध्यायः १९२
भीष्म उवाच।
शिखण्डिवाक्यं श्रुत्वाऽथ स यक्षो भरतर्षभ ।
प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः ।।
भवितव्यं तथा तद्धि मम दुःखाय कौरव।
भद्रे कामं करिष्यामि समयं तु निबोध मे ।।
`स्वं ते पुंस्त्वं प्रदास्यामि स्त्रीत्वं धारयिताऽस्मि ते'
किंचित्कालं तु ते दास्ये पुल्लिङ्गं स्वमिदं तव।
आगन्तव्यं त्वया काले सत्यं चैव वदस्व मे ।।
प्रभुः संकल्पसिद्धोऽस्मि कामचारी विहंगमः ।
मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलम् ।।
स्त्रीलिङ्गं धारयिष्यामि तवेदं पार्थिवात्मजे।
सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव ।।
शिखण्ड्युवाच।
प्रतिदास्यामि भगवन्पुलिङ्गं तव सुव्रत।
किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर ।।
प्रतियाते दशार्णे तु पार्थिवे हेमवर्मणि ।
कन्यैव हि भविष्यामि पुरुषस्त्वं भविष्यसि ।।
भीष्म उवाच।
इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप ।
अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः ।।
स्त्रीलिङ्गं धारयामास स्थूणो यक्षोऽथ भारत ।
यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत ।।
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव ।
विवेश नगरं हृष्टः पितरं च समासदत् ।।
यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य तत्।
`मातुश्च रहिते राजन्प्रसादं यक्षजं तदा।'
द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम् ।।
सभार्यस्तच्च सस्मार महेश्वरवचस्तदा ।
ततः संप्रेषयामास दशार्णाधिपतेर्नृपः ।।
पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति ।
अथ दाशार्णको राजा सहसाभ्यागमत्तदा ।।
पाञ्चालराजं द्रुपदं दुःखशोकसमन्वितः।
ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्ततः ।।
प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम्।
ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम् ।।
यन्मे कन्यां स्वकन्यार्थे वृतवानसि दुर्मते।
फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः ।।
एवमुक्तश्च तेनासौ ब्राह्मणो राजसत्तम।
दूतः प्रयातो नगरं दाशार्णनृपचोदितः ।।
ततः आसादयामास पुरोधा द्रुपदं पुरे।
तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् ।।
प्रापयामास राजेन्द्र सह तेन शिखण्डिना ।
तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह ।।
यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा ।
यत्तेऽहमधमाचार दुहित्राऽस्म्यभिवञ्चितः ।।
तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते ।
देहि युद्धं नरपते ममाद्य रणमूर्धनि ।।
उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् ।
तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः ।।
दशार्णपतिना चोक्तो मन्त्रिमध्ये पुरोधसा।
अभवद्भरतश्रेष्ठ द्रुपदः प्रणयानतः ।।
यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः ।
अस्योत्तरं प्रतिवचो दूतो राज्ञे वदिष्यति ।।
ततः संप्रेषयामास द्रुपदोऽपि महात्मने ।
हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् ।।
तमागम्य तु राजानं दशार्णाधिपतिं तदा।
तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह ।।
आगमः क्रियतां व्यक्तः कुमारोऽयं सुतो मम ।
मिथ्यैतदुक्तं केनापि तदश्रद्धेयमित्युत ।।
ततः स राजा द्रुपदस्य श्रुत्वा।
विमर्शयुक्तो युवतीर्वरिष्ठाः।
संप्रेषयामास सुचारुरूपाः
शिखण्डिनं स्त्रीपुमान्वेति वेत्तुम् ।।
ताः प्रेषितास्तत्त्वभावं विदित्वा
प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् ।
शिखण्डिनं पुरुषं कौरवेन्द्र
दाशार्णराजाय महानुभावम् ।।
ततः कृत्वा तु राजा स आगमं प्रीतिमानथ।
संबन्धिना समागम्य हृष्टो वासमुवास ह ।।
शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः ।
हस्तिनोऽश्वांश्च गाश्चैव दासीर्बहुशतास्तथा ।
पूजितश्च प्रतिययौ निर्भर्त्स्य तनयां किल ।।
विनीतकिल्विषे प्रीते हेमवर्मणि पार्थिवे ।
प्रतियाते दशार्णे तु हृष्टरूपा शिखण्डिनी ।।
कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः ।
लोकयात्रां प्रकुर्वाणः स्थूणस्यागान्निवेशनम् ।।
स नद्गृहस्योपरि वतमान
आलोकयामास धनाधिगोप्ता।
स्थूणस्य यक्षस्य विवेश वेश्म
स्वलंकृतं माल्यगुणैर्विचित्रैः ।।
लाचैश्च गन्धैश्च तथा वितानै-
रभ्यर्चितं धृनधृपितं च।
ध्वजैः पताकाभिरलंकृतं च
भक्ष्यान्नपेयामिपदत्तमोदम् ।।
तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम्।
मणिरत्नसुवर्णानां मालाभिः परिपूरितम् ।।
नानाकुसूमगन्धाढ्यं सिक्तसंमृष्टशोभितम् ।
अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा ।।
स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः ।
नोपसर्पति मां चैव कस्मादद्य स मन्दधीः ।।
यस्माज्जानन्स मन्दात्मा मामसौ नोपसर्पति ।
तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः ।।
यक्षा ऊचुः ।
द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी।
तस्या निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् ।।
अग्रहील्लक्षणं स्त्रीणां स्त्रीभूता तिष्ठते गृहे।
नोपसर्पति तेनासौ सव्रीडः स्त्रीसरूपवान् ।।
एतस्मात्कारणाद्राजन्स्थूणो न त्वाऽद्य सर्पति।
श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् ।।
आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् ।
कर्तास्मि निग्रहं तस्य प्रत्युवाच पुनः पुनः ।।
सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते।
स्त्रीमरूपो महाराज तस्थौ व्रीडासमन्वितः ।।
तं शशापाथ संक्रुद्धो धनदः कुरूनन्दन ।
एवमेव भवत्वद्य स्त्रीत्वं पापस्य गुह्यकाः ।।
ततोऽब्रवीद्यक्षपतिर्महात्मा
यस्माददास्त्ववमन्येह यक्षान्।
शिखण्डिनो लक्षणं पापबुद्धे
स्त्रीलक्षणं चाग्रहीः पापकर्मन् ।।
अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्त्वया कृतम्।
तस्मादद्य प्रभृत्येव स्त्री त्वं सा पुरुषस्तथा ।।
ततः प्रसादयामासुर्यक्षा वैश्रवणं किल।
स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः ।।
ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः ।
सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया ।।
शिखण्डिनि हते यक्षाः स्वं रूपं प्रतिपत्स्यते ।
स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः ।।
इत्युक्त्वा भगवान्देवो यक्षराजः सुपूजितः ।
प्रययौ सहितः सर्वैर्निमेषान्तरचारिभिः ।।
स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा।
समये चागमूत्तूर्णं शिखण्डी तं क्षपाचरम् ।।
सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति।
तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः ।।
आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् ।
सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने ।।
भीष्म उवाच।
शप्तो वैश्रवणेनाहं त्वत्कृते पार्थिवात्मज ।
गच्छेदानीं यथाकामं चर लोकान्यथासुखम् ।।
दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् ।
गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् ।।
भीष्म उवाच।
एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत ।
प्रत्याजगाम नगरं हर्वेण महतावृतः ।।
पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः ।
द्विजातीन्देवताश्चैव चैत्यानथ चतुष्पथान् ।।
द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना ।
मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः ।।
शिष्यार्थं प्रददौ चाथ द्रोणाय कुरुपुङ्गव ।
शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा ।।
प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः।
शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः ।।
मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् ।
जडान्धबधिराकारा ये मुक्ता द्रपदे मया ।।
एवमेष महाराज स्त्री पुमान्द्रुपदात्मजः ।
स संभूतः कुरुश्रेष्ठ शिखण्डी रथसत्तमः ।।
ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता ।
द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ ।।
नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् ।
मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत ।।
व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम् ।
स्त्रियां स्त्रीपूर्वके चैव स्त्रीनाम्नि स्त्रीसरूपिणि ।।
न मुञ्चेयमहं बाणमिति कौरवनन्दन ।
न हन्यामहमेतेन कारणेन शिखण्डिनम् ।।
एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः ।
ततो नैनं हनिष्यामि समरेष्वाततायिनम् ।।
यदि भीष्मः स्त्रियं हन्यात्सन्तः कुर्युर्विगर्हणम् ।
नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् ।।
वैशंपायन उवाच।
एतच्छ्रुत्वा तु करव्यो राजा दुर्योधनस्तदा।
मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
द्विनवत्यधिकशततमोऽध्यायः ।।