उद्योगपर्व

अध्यायः १८४

Udyoga Parva (Sanskrit) · Adhyaya 184
अक्षर का आकार

भीष्म उवाच।

ततो रात्रौ व्यतीतायां प्रतिबुद्धोऽस्मि भारत ।
ततः संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् ।।

ततः समभवद्युद्धं मम तस्य च भारत ।
तुमुलं सर्वभूतानां रोमहर्षणमद्भुतम् ।।

ततो बाणमयं वर्षं ववर्ष मयि भार्गवः।
न्यवारयमहं तच्च शरजालेन भारत ।।

ततः परमसंक्रुद्धः पुनरेव महातपाः ।
ह्यस्तनेन च कोपेन शक्तिं वै प्राहिणोन्मयि ।।

इन्द्राशनिसमस्पर्शां यमदण्डसमप्रभाम् ।
ज्वलन्तीमग्निवत्सङ्ख्ये लेलिहानां समन्ततः ।।

ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा।
सा ममाभ्यवधीत्तूर्णं जत्रुदेशे कुरूद्वह ।।

अथास्रमस्रवद्धोरं गिरेर्गैरिकधातुवात् ।
रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण ।।

ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः ।
चिक्षेप मृत्युसंकाशं बाणं सर्पविषोपमम् ।।

स तेनाभिहतो वीरो ललाटे द्विजसत्तमः ।
अशोभत महाराज शश्रृङ्ग इव पर्वतः ।।

स संरब्धः समावृत्य शरं कालान्तकोपमम् ।
संदधे बलवत्कृष्य घोरं शत्रनिबर्हणम् ।।

स वक्षसि पापतोग्रः शरो व्याल इव श्वसन् ।
महीं राजंस्ततश्चाहमगमं रुधिराविलः ।।

संप्राप्य तु पुनः संज्ञां जामदघ्न्याय धीमते ।
प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव ।।

सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे ।
विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् ।।

तत एनं परिष्वज्य सखा विप्रो महातपाः ।
अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा ।।

समाश्वस्तस्ततो रामः क्रोधामर्षसमन्वितः ।
प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः ।।

ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम् ।
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् ।।

तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः ।
असंप्राप्यैव रामं च मां च भारतसत्तम ।।

ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् ।
भूतानि चैव सर्वाणि जग्मुरार्तिं विशांपते ।।

ऋषयश्च सगन्धर्वा देवताश्चैव भारत।
संतापं परमं जग्मुरस्त्रतेजोभिपीडिताः।।

ततश्चचाल पृथिवी सपर्वतवनद्रुमा।
संतप्तानि च भूतानि विषादंक जग्मुरुत्तमम् ।।

प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश।
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा ।।

ततो हाहाकृते लोके सदेवासुरराक्षसे ।
इदमन्तरमित्येवं मोक्तुकामोऽस्मि भारत ।।

प्रस्वापमस्त्रं त्वरितो वचनाद्ब्रह्मवादिनाम् ।
चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
चतुरशीत्यधिकशततमोऽध्यायः ।।