उद्योगपर्व

अध्यायः १८२

Udyoga Parva (Sanskrit) · Adhyaya 182
अक्षर का आकार

भीष्म उवाच।

ततः प्रभाते राजेन्द्र सूर्ये विमलतां गते।
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ।।

ततोऽभ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः।
ववर्ष शरजालानि मयि मेध इवाचले ।।

ततः सूतो मम सुहृच्छरवर्षेण ताडितः।
अपयातो रथोपस्थान्मनो मम विषादयन् ।।

ततः सूतो ममात्यर्थं कश्मलं प्राविशन्महत् ।
पृथिव्यां च शराघातान्निपपात मुमोह च ।।

ततः सूतो जहात्प्राणान्रामबाणप्रपीडितः।
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ।।

ततः सूते हते तस्मिन्क्षिपतस्तस्य मे शरान् ।
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितम् ।।

ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः ।
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ।।

स मे भुजान्तरे राजन्निपत्य रुधिराशनः।
मयैव सह राजेन्द्र जगाम वसुधातलम् ।।

मत्वा तु निहतं रामस्ततो मां भरतर्षभ ।
मेघवद्विननादोच्चैर्जहृषे च पुनः पुनः ।।

तथा तु पतिते राजन्मयि रामो मुदा युतः।
उदक्रोशन्महानादं सह तैरनुयायिभिः ।।

मम तत्राभवन्ये तु कुरवः पार्श्वतः स्थिताः ।
आगता अपि युद्धं तञ्जनास्तत्र दिदृक्षवः ।
आर्तिं परमिकां जग्मुस्ते तदा पतिते मयि ।।

ततोऽपश्यं पतितो राजसिंह
द्विजानष्टौ सूर्यहुताशनाभान् ।
ते मां समन्तात्परिर्वाय तस्थुः
स्वबाहुभिः परिधार्याजिमध्ये ।।

रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् ।
अन्तरिक्षे धृतो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ।।

श्वसन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ।
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् ।।

मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत्।
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः ।
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ।।

हयाश्च मे संगृहीतास्तयाऽऽस-
न्महानद्या संयति कौरवेन्द्र।
पादौ जनन्याः प्रतिगृह्य चाहं
तथा पितॄणां रथमभ्यरोहम् ।।

ररक्ष सा मां सरथं हयांश्चोपस्काराणि च।
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ।।

ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः।
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ।।

ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् ।
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ।।

ततो जगाम वसुधां मम बाणप्रपीडितः ।
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ।।

ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे ।
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ।।

उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः।
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ।।

ववुश्च वाताः परुषाश्चलिता च वसुंधरा ।
गृध्रा बलाश्च कङ्काश्च परिपेतुर्गुदा युताः ।।

दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् ।
अनाहता दुन्दुभयो विनेदुर्भृशनिःस्वनाः ।।

एतदौत्पातिकं सर्वं घोरमासीद्भयंकरम् ।
विसंज्ञकल्पे धरणीं गते रामे महात्मनि ।।

ततो वै सहसोत्थाय रामो मामभ्यवर्तत ।
पुनर्युद्धाय कौरव्य विह्वलः क्रोधमूर्छितः ।।

आददानो महाबाहुः कार्मुकं तालसन्निभम् ।
ततो मय्याददानं तं राममेव न्यवारयन् ।।

महर्षयः कृपायुक्ताः क्रोधाविष्टोऽपि भार्गवः ।
समाहरदमेयात्मा शरं कालानलोपमम् ।।

सतो रविर्मन्दमरीचिमण्डलो
जगामास्तं पांसुपुञ्जावगूढः
निशा व्यगाहत्सुखशीतमारुता
ततो युद्धं प्रत्यवहारयाव- ।।

एवं राजन्नवहारो बभूव
ततः पुनर्विमलेऽभूत्सुघोरम्।
कल्यंकल्यं विंशतिं वै दिनानि
तथैव चान्यानि दिनानि त्रीणि ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
द्व्यशीत्यधिकशततमोऽध्यायः ।।