उद्योगपर्व

अध्यायः १७७

Udyoga Parva (Sanskrit) · Adhyaya 177
अक्षर का आकार

अकृतव्रण उवाच।

दुःख द्वयोरिदं भद्रे कतरस्य चिकीर्षसि।
प्रतिकर्तव्यमबले तत्त्वं वत्से वदस्व मे ।।

यदि सौभपतिर्भद्रे नियोक्तव्यो मतस्तव ।
नियोक्ष्यति महात्मा स रामस्त्वद्धितकाम्यया ।।

अथापगेयं भीष्मं त्वं रामेणेच्छसि धीमता ।
रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः।।

सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते।
यदत्र ते भृशं कार्यं तदद्यैव विचिन्त्यताम् ।।

अम्बोवाच।

अपनीतास्मि भीष्मेण भगवन्नविजानता।
नाभिजानाति मे भीष्मो ब्रह्मन्साल्वगतं मनः ।।

एतद्विचार्य मनसा भवानेतद्विनिश्चयम्।
विचिनोतु यथान्यायं विधानं क्रियतां तथा ।।

भीष्मे वा कुरुशार्दूले शाल्वराजेऽथवा पुनः।
उभयोरेव वा ब्रह्मन्युक्तं यत्तत्समाचर ।।

निवेदितं मया ह्येतद्दुःखमूलं यथातथम् ।
विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः ।।

अकृतव्रण उवाच।

उपपदमिदं भद्रे यदेवं वरवर्णिनि ।
धर्मं प्रतिवचो ब्रूयाः श्रृणु चदं वचो मम ।।

यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् ।
साल्वस्त्वा शिरसा भीरु गृह्णीयाद्रामचोदितः ।।

तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि ।
संशयः साल्वराजस्य तेन त्वयि सुमध्यमे ।।

भीष्मः पुरुषमानी च जितकाशी तथैव च।
तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं तव ।।

अम्बोवाच।

ममाप्येष सदा ब्रह्मन्हृदि कामोऽभिवर्तते।
घातयेयं यदि रणे भीष्ममित्येव नित्यदा ।।

भीष्मं वा साल्वराजं वा यं वा दोषेण गच्छसि ।
प्रशाधि तं महाबाहोयत्कृतेऽहं सुदुःखिता ।।

भीष्म उवाच।

एवं कथयतामेव तेषां स दिवसो गतः ।
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ।।

ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा ।
शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः ।।

धनुष्पाणिरदीनात्मा खङ्गं बिभ्रत्परश्वधी ।
विरजा राजशार्दूल सृञ्जयं सोऽभ्ययान्नृपम् ।।

ततस्तं तापसा दृष्ट्वा स च राजा महातपाः ।
तस्थुः प्राञ्जलयो राजन्सा च कन्या तपस्विनी ।।

पूजयामासुरव्यग्रा मधुपर्केण भार्गवम्।
अर्चितश्च यथान्यायं निषसाद सहैव तैः ।।

ततः पूर्वव्यतीतानि कथयन्तौ स्म तावुभौ ।
आसातां जामदग्न्यश्च सृञ्जयश्चैव भारत ।।

तथा कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम् ।
उवाच मधुरं काले रामं वचनमर्थवत् ।।

रामेयं मम दौहित्री काशिराजसुता प्रभो ।
अस्याः श्रृणु यथातत्त्वं कार्यं कार्यविशारद ।।

परमं कथ्यतां चेति तां रामः प्रत्यभाषत ।
ततः साभ्यवदद्रामं ज्वलन्तमिव पावकम् ।।

ततोऽभिवाद्य चरणौ रामस्य शिरसा शुभौ ।
स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ।।

रुरोद सा शोकवती बाष्पव्याकुललोचना।
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ।।

राम उवाच।

यथा त्वं सृंजयस्यास्य तथा मे त्वं नृपात्मजे ।
ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ।।

अम्बोवाच।

भगवञ्शरणं त्वाद्य प्रपन्नाऽस्मि महाव्रतम् ।
शोकपङ्कार्णवान्मग्नं घोरादुद्धर मां विभो ।।

भीष्म उवाच।

तस्याश्च दृष्ट्वा रूपं च वपुश्चाभिनवं पुनः।
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ।।

किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः।
इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ।।

कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता।
सर्वमेव यथातत्त्वं कथयामास भार्गवे ।।

तच्छुत्वा जामदग्र्यस्तु राजपुत्र्या वचस्तदा ।
उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ।।

राम उवाच।

प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि ।
करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः ।।

न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः।
धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा ।।

अथवा ते मतिस्तत्र राजपुत्रि न वर्तते।
यावत्साल्वपतिं वीरं योजयाम्यत्र कर्मणि ।।

अम्बोवाच।

विसर्जिताऽहं भीष्मेण श्रुत्वैव भृगुनन्दन।
साल्वराजगतं भावं मम पूर्वं मनीषितम् ।।

सौभराजमुपेत्याहमवोचं दुर्वचं वचः।
न च मां प्रत्यगृह्णात्स चारित्र्यपरिशङ्कितः ।।

एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन ।
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ।।

मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः।
येनाहं वशमानीता समत्क्षिप्य बलात्तदा ।।

भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् ।
प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ।।

स हि लुब्धश्च नीचश्च जितकाशी च भार्गव ।
तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयाऽनघ ।।

एष मे ह्रियमाणाया भारतेन तदा विभो।
अभवद्धृदि संकल्पो घातयेदं महाव्रतम् ।।

तस्मात्कामं ममाद्येमं राम संपादयानघ।
जहि भीष्मं महाबाहो यथा वृत्रं पुरन्दरः ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
सप्तसप्तत्यधिकशततमोऽध्यायः ।।