उद्योगपर्व

अध्यायः १७५

Udyoga Parva (Sanskrit) · Adhyaya 175
अक्षर का आकार

भीष्म उवाच।

ततोऽहं समनुज्ञाप्य कालीं गन्धवतीं तदा।
मन्त्रिणश्चर्त्विजश्चैव तथैव च पुरोहितान्।
समनुज्ञामिषं कन्यामम्बां ज्येष्ठां नराधिप ।।

अनुज्ञाता ययौ सा तु कन्या साल्वपतेः पुरम्।
वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा ।।

अतीत्य च तमध्वानमासमाद नराधिपम ।
सा तमासाद्य राजानं साल्वं वचनमब्रवीत् ।।

आगताहं महाबाहो त्वामुद्दिश्य महामते।
`अभिनन्दस्व मां राजन्सदा प्रियहिते रताम्।।

प्रतिपादय मां राजन्धर्मादींश्चर धर्मतः ।
त्वं हि मे मनसा ध्यातस्त्वया चाप्युपमन्त्रिता ।।

भीष्म उवाच।'

तामब्रवीत्साल्वपतिः स्मयन्निव विशांपते।
त्वयाऽन्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ।।

गच्छ भद्रे पुनस्तत्र सकाशं भीष्मकस्य वै।
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै ।।

त्वं हि भीष्मेण निर्जित्य नीता प्रीतिमती तदा।
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् ।।

नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि ।
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत् ।।

नारीं विदितविज्ञानः परेषां धर्ममादिशन्।
यथेष्टं गम्यतां भद्रे मा त्वां कालोऽत्यगादयम् ।।

अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता।
नैवं वद महीपाल नैतदेवं कथंचन ।।

नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन ।
बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् ।।

भजस्व मां साल्वपते भक्तां बालामनागसम् ।
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते ।।

साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम् ।
अनुज्ञाता च तेनैव ततोऽहं भृशमागता ।।

न स भीष्मो महाबाहुर्मामिच्छति विशांपते ।
भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया ।।

भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप।
प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे ।।

यथा साल्वपते नान्यं वरं यामि कथंचन।
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे ।।

न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता।
सत्यं ब्रवीमि साल्वैतत्सत्येनात्मानमालभे ।।

भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्।
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् ।।

तामेवं भाषमाणां तु साल्वः काशिपतेः सुताम्।
अत्यजद्भरतश्रेष्ठ जीर्णां त्वचमिवोरगः ।।

एवं बहुविधैर्वाक्यैर्याच्यमानस्तया नृपः ।
नाश्रद्दधत्साल्वपतिः कन्यायां भरतर्षभ ।।

ततः सा मन्युनाऽऽविष्टा ज्येष्ठा काशिपतेः सुता।
अब्रवीत्साश्रुनयना बाष्पविप्लुतया गिरा ।।

त्वया त्यक्ता गमिष्यामि यत्र तत्र विशांपते।
तत्र मे गतयः सन्तु सन्तः सत्यं यथा ध्रुवम् ।।

एवं तां भाषमाणां तु कन्यां साल्वपतिस्तदा।
परितत्याज कौरव्य करुणं परिदेवतीम् ।।

गच्छ गच्छेति तां साल्वः पुनः पुनरभाषत।
बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः ।।

एवमुक्ता तु सा तेन साल्वेनादीर्घदर्शिना ।
निश्चक्राम पुराद्दीना रुदती कुररी यथा ।।

भीष्म उवाच।

निष्क्रामन्ती तु नगराच्चिन्तयामास दुःखिता ।
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया ।।

बन्धुर्भिर्विप्रहीणास्मि साल्वेन च निराकृता ।
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् ।।

अनुज्ञाता तु भीष्मेण साल्वमुद्दिश्य कारणम्।
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् ।।

अथवा पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् ।
मयाऽयं स्वकृतो दोषो याऽहं भीष्मरथात्तदा ।।

प्रवृत्ते दारुणे युद्धे साल्वार्थं नापतं पुरा।
तस्येयं फलनिर्वृत्तिर्यदापन्नाऽस्मि मूढवत् ।।

धिग्भीष्मं धिक्क मे मन्दं पितरं मूढचेतसम् ।
येनाहं वीर्यशुल्केन पण्यस्त्रीव प्रचोदिता ।।

धिङ्मां धिक्साल्वराजानं धिग्धातारमथापि वा ।
येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् ।।

सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः ।
अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम ।।

सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम् ।
तपसा वा युधा वापि दुःखहेतुः स मे मतः ।।

को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः ।
एवं सा परिनिश्चित्य जगाम नगराद्बहिः ।।

आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ।
ततस्तामवसद्रात्रिं तापसैः परिवारिता ।।

आचख्यौ च यथावृत्तं सर्वमात्मनि भारत ।
विस्तरेण महाबाहो निखिलेन शुचिस्मिता ।
हरणं च विसर्गं च साल्वेन च विसर्जनम् ।।

ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः ।
शैखावत्यस्तपोबृद्धः शास्त्रे चारण्यके गुरुः ।।

आर्ता तामाह स मुनिः शैखावत्यो महातपाः ।
निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ।।

एवं गते तु किं भद्रे शक्यं कर्तुं तपस्विभिः ।
आश्रमस्थैर्महाभागे तपोयुक्तैर्महात्मभिः ।।

सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः ।
प्राव्राज्यमहमिच्छामि तपस्तप्स्यामि दुश्चरम् ।।

मयैव यानि कर्माणि पूर्वदेहे तु मूढया।
कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् ।।

नोत्सहे तु पुनर्गन्तुं स्वजनं प्रति तापसाः ।
प्रत्याख्याता निरानन्दा साल्वेन च निराकृता ।।

उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः ।
युष्माभिर्देवसंकाशैः कृपा भवतु वो मयि ।।

स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः ।
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
पञ्चसप्तत्यधिकशत्तमोऽध्यायः ।।