उद्योगपर्व

अध्यायः १७१

Udyoga Parva (Sanskrit) · Adhyaya 171
अक्षर का आकार

भीष्म उवाच।

पाञ्चालराजस्य सुतो राजन्परपुरंजयः ।
शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत ।।

एष योत्स्यति संग्रामे नाशयन्पूर्वसंस्थितम् ।
परं यशो विप्रथयंस्तव सेनासु भारत ।।

एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः ।
तेनासौ रथवंशेन महत्कर्म करिष्यति ।।

धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत ।
मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः ।।

एष योत्स्यति संग्रामे सूदयन्वै परान्रणे।
भगवानिव संक्रुद्धः पिनाकी युगसंक्षये ।।

एतस्य तद्रथानीकं कथयन्ति रणप्रियाः ।
बहुत्वात्सागरप्रख्यं देवानामिव संयुगे ।।

क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप।
धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः ।।

शिशुपालसुतो वीरश्चेदिराजो महारथः।
धृष्टकेतुर्महेष्वासः संबन्धी पाण्डवस्य ह ।।

एष चेदिपतिः शूरः सह पुत्रेण भारत ।
महारथानां सुकरं महत्कर्म करिष्यति ।।

क्षत्रधर्मरतो मह्यं मतः परपुरंजयः ।
क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः ।।

जयन्तश्चामितौजाश्च सत्यजिच्च महारथः ।
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः ।।

योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः ।
अजो भोजश्च विक्रान्तौ पाण्डवार्थे महारथौ ।।

योत्स्येते बलिनौ शूरौ परं शक्त्या यतिष्यतः।
शीघ्रास्त्राश्चित्रयोद्धारः कृतिनो दृढविक्रमाः ।।

केकयाः पञ्च राजेन्द्र भ्रातरो दृढविक्रमाः ।
सर्वे चैव रथोदाराः सर्वे लोहितकध्वजाः ।।

काशिकः सुकुमारश्च नीलो यश्चापरो नृप ।
सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः ।।

सर्व एव रथोदाराः सर्वे चाहवलक्षणाः ।
सर्वास्त्रविदुषः सर्वे महात्मानो मता मम ।।

वार्धक्षेमिर्महाराज मतो मम महारथः ।
चित्रायुघश्च नृपतिर्मतो मे रथसत्तमः ।।

स हि सङ्ग्रामशोभी च भक्तश्चापि किरीटिनः ।
चेकितानः सत्यधृतिः पाण्डवानां महारथौ ।
द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम ।।

व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत।
मतौ मम रथोदारौ पाण्डवानां न संशयः ।।

सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः ।
यः समो वासुदेवेन भीमसेनेन वा विभो ।।

स योत्स्यति हि विक्रम्य समरे तव सैनिकैः ।
मां च द्रोणं कृपं चैव यथा संमन्यते भवान् ।।

तथा स समरश्लाघी मन्तव्यो रथसत्तमः ।
काश्यः परमशीघ्रास्त्रः श्लाघनीयो नरोत्तमः ।।

रथ एकगुणो मह्यं ज्ञेयः परपुरंजयः ।
अयं च युधि विक्रान्तो मन्तव्योष्टगुणो रथः ।।

सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा ।
गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः ।।

पाण्डवानां यशस्कामः परं कर्म करिष्यति ।
अनुरक्ताश्च शूरश्च रथोऽयमपरो महान् ।।

पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः ।
दृढधन्वा महेष्वासः पाण्डवानां महारथः ।।

श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः ।
उभावेतावतिरथौ मतौ परपुरंजयौ ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि रथातिरथसंख्यानपर्वणि
एकसप्तत्यधिकशततमोऽध्यायः ।।