उद्योगपर्व

अध्यायः १७

Udyoga Parva (Sanskrit) · Adhyaya 17
अक्षर का आकार

शल्य उवाच।

अथ संचिन्तयानस्य देवराजस्य धीमतः।
नहुषस्य वधोपायं लोकपालैः सदैवतैः ।।

तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत।
सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान् ।।

विश्वरूपविनाशेन वृत्रासुरवधेन च।
दिष्ट्याद्य नहुषो भ्रष्टो देवराज्यात्पुरन्दर ।।

दिष्ट्या हतारिं पश्यामि भवन्तं वलसूदन।

इन्द्र उवाच।

स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तत।
पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे ।।

शल्य उवाच।

पूजितं चोपविष्टं तमासेन मुनिसत्तमम्।
पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् ।।

श्रोतुमिच्छामि भगवन्कथ्यमानं द्विजोत्तम।
परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः ।।

अगस्त्य उवाच।

श्रृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् ।
स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः ।।

श्रमार्ताश्च वहन्तस्तं नहुषं पापकारिणम् ।
देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः ।।

पप्रच्छुर्नहुषं देवं संशयं जयतां वर।
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् ।।

एते प्रमाणं भवत उताहो नेति वासव।
नहुषो नेति तानाह तमसा मूढचेतनः ।।

ऋषय ऊचुः।

अधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे।
प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः ।।

अगस्त्य उवाच।

ततो विवदमानः स मुनिभिः सह वासव ।
अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः ।।

तेनाभूद्धततेजाश्च निःश्रीकश्च महीपतिः ।
ततस्तं तमसा विग्नमवोचं भृशपीडितम् ।।

यस्मात्पूर्वैः कृतं राजन्ब्रह्मर्षिभिरनुष्ठितम् ।
अदृष्टं दूषयसि मे यच्च मूर्ध्य्रस्पृशः पदा ।।

यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान् ।।

वाहान्कृत्व्रा वाहयसि तेन स्वर्गाद्धतप्रभः ।
ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतले ।।

दशवर्षसहस्राणि सर्परूपधरो महान्।
विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि ।।

` दृष्ट्वा युधिष्ठिरं नाम तव वंशसमुद्भवम्।
निहतो ब्रह्मशापेन प्रपद्यस्व त्रिविष्टपम्।।'

एवं भ्रष्टो दुरात्मा स देवराज्यादरिन्दम।
दिष्ट्या वर्धामहे शक्र हतो ब्रह्मर्षिकण्टकः ।।

त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते।
जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः ।।

शल्य उवाच।

ततो देवा भृशं तुष्टा महर्षिगणसंवृताः।
पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा ।।

गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः।
सरांसि सरितः शैलाः सागराश्च विशांपते ।।

उपागम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शक्रुहन् ।
हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता।
दिष्ट्या पापसमाचारः कृतः सर्पो महीतले ।।

।। इति श्रीमन्महाभाते उद्योगपर्वणि
सेनोद्योगपर्वणि सप्तदशोऽध्यायः ।।