उद्योगपर्व

अध्यायः १५७

Udyoga Parva (Sanskrit) · Adhyaya 157
अक्षर का आकार

जनमेजय उवाच।

आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम्।
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ।।

बृहस्पतिसं बुद्ध्या क्षमया पृथिवीसमम् ।
समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् ।।

प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् ।
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ।।

रणयज्ञे प्रवितते सुभीमे लोमहर्षणे।
दीक्षितं चिररात्राय श्रुत्वा तत्र युधिष्ठिरः ।।

किमब्रवीन्महाबाहुः सर्वशस्त्रभृतां वरः ।
भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यभाषत ।।

वैशंपायन उवाच।

आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः।
सर्वान्भ्रातॄन्समानीय वासुदेवं च शाश्वतम् ।।

उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः।
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः ।।

पितामहेन वो युद्धं पूर्वमेव भविष्यति।
तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ।।

कृष्ण उवाच।

यथार्हति भवान्वक्तुमस्मिन्काले ह्युपस्थिते।
तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ।।

रोचते मे महाबाहो क्रियतां यदनन्तरम्।
नायकास्तव सेनायां क्रियन्तामिह सप्त वै ।।

वैशंपायन उवाच।

ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् ।
धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिव।
शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ।।

एतान्सप्त महाभागान्वीरान्युद्धाभिकाङ्क्षिणः ।
सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः ।।

सर्वसेनापतिं चात्र धृष्टद्युम्नं चकार ह ।
द्रोणान्तहेतोरुत्पन्नो य इद्धाञ्जातवेदसः ।।

सर्वेषामेव तेषां तु समस्तानां महात्मनाम् ।
सेनापतिपतिं चक्रे गडाकेशं धनञ्जयम् ।।

अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम्।
सङ्कर्णणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ।।

तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् ।
प्राविशद्भवनं राज्ञः पाण्डवानां हलायुधः ।।

सहाक्रूरप्रभृतिभिर्ददसाम्बोद्धवादिभिः ।
रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ।।

वृष्णिमुख्यैरधिगतैर्व्याघ्रैरिव बलोत्कटैः ।
अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ।।

नीलकौशेयवसनः कैलासशिखरोपमः ।
सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः ।।

तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः ।
उदतिष्ठत्ततः पार्थो भीमकर्मा वृकोदरः ।।

गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन।
पूजयाञ्चक्रिरे ते वै समायान्तं हलायुधम् ।।

ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना ।
वासुदेवपुरोगास्तं सर्व एवाभ्यवादयन् ।।

विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः ।
युधिष्ठिरेण सहित उपाविशदरिन्दमः ।।

ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः ।
वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ।।

भवितायं महारौद्रो दारुणः पुरुषक्षयः ।
दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ।।

तस्माद्युद्धात्समुत्तीर्णानपि वः समुहृञ्जानान्।
अरोगानक्षतैर्देहैर्द्रष्टास्मीति मतिर्मम ।।

समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् ।
विमर्दश्च महान्भावी मांसशोणितकदर्दमः ।।

उक्तो मया वासुदेवः पुनः पुनरुपह्वरे।
संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ।।

पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः।
तस्यापि क्रियतां साह्यं स पर्येति पुनःपुनः ।।

तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः।
निर्विष्टः सर्वभावेन धनञ्जयमवेक्ष्य ह ।।

ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः।
तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ।।

न चाहमृत्सहे कृष्णमृते लोकमुदीक्षितुम् ।
ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ।।

उभौ शिष्यौ हि मे वीरौ गदायद्धविशारदौ ।
तुल्यस्नेहोऽस्म्यतो भीते तथा दुर्योधने नृपे ।।

तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् ।
न हि शक्ष्यामि कौरव्यान्नश्यमानानवेक्षितुम् ।।

वैशंपायन उवाच।

एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः।
तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वमि सैन्यनिर्याणपर्वणि
सप्तपञ्चाशदधिकशततमोऽध्यायः ।।