उद्योगपर्व
अध्यायः १४०
जनमेजय उवाच।
राजपुत्रैः परिवृतस्तथा भृत्यैश्च सत्तम।
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः।।
किमब्रवीद्रथोपस्थे राधेयं परवीरहा ।
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ।।
उद्यन्मेघस्वनः काले यत्कृष्णः कर्णमब्रवीत्।
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सर्वशः ।।
वैशंपायन उवाच।
आनुपूर्व्येण वाक्यानि तीक्ष्णानि च मृदूनि च।
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ।।
हृदयग्रहणीयानि राधेयं मधुसूदनः ।
यान्यब्रवीदमेयात्मा तानि मे श्रृणु भारत ।।
वासुदेव उवाच।
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ।।
त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।
त्वमेव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ।।
कानीनश्च सहोढश्च कन्यायां यश्च जायते ।
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ।।
सोऽसि कर्ण तथाजातः पाण्डोः पुत्रोसि धर्मतः ।
निश्चयाद्धर्मशास्त्राणामेहि राजा भविष्यसि ।।
पितृपक्षे च ते पार्था मातृपक्षे च वृष्णयः ।
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ।।
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः ।
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ।।
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः।
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ।।
राजानो राजपुत्राश्च पाण्डवार्थे समागताः।
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ।।
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा ।
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ।।
राजन्या राजकन्याश्चाप्यानयन्त्वाभिषेचनम् ।
षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति ।।
अग्निं जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः ।
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः ।।
पुरोहितः पाण्डवानां ब्रह्मकर्मण्यवस्थितः।
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः ।।
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ।
अहं च त्वाऽभिषेक्ष्यामि राजानं पृथिवीपतिम् ।।
युवराजोऽस्तु ते राजा धर्मपुत्रो युधिष्ठिरः।
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः ।
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ।
छत्रं च ते महाश्वेतं भीमसेनो महाबलः ।।
अभिषिक्तस्य कौन्तेयो धारयिष्यति मूर्धनि ।
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् ।।
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति।
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति ।।
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये।
पञ्चालाश्चानुयास्यन्ति शिखण्डी च महारथः ।
अहं च त्वाऽनुयास्यामि सर्वे चान्धकवृष्णयः।
दाशार्हाः परिवारास्ते दाशार्णाश्च विशांपते ।।
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः ।
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ।।
पुरोगमाश्च ते सन्तु द्रविडाः सहकुन्तलैः।
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ।।
स्तुवन्तु त्वां च बहुभिः स्तुतिभिः सूतमागधाः ।
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ।।
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः।
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ।।
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा।
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
चत्वारिंशदधिकशततमोऽध्यायः ।।