उद्योगपर्व

अध्यायः १३७

Udyoga Parva (Sanskrit) · Adhyaya 137
अक्षर का आकार

कुन्त्युवाच।

अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके।
उपोपविष्टा नारीभिराश्रमे परिवारिता ।।

अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा ।
सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः ।

एष जेष्यति सङ्ग्रामे कुरून्सर्वान्समागतान्।
भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति ।।

पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्।
हत्वा कुरूंश्च सङ्ग्रामे वासुदेवसहायवान् ।।

पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति ।
भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति ।।

स सत्यसन्धो बीभत्सुः सव्यसाची यथाच्युत ।
तथा त्वमेव जानासि बलवन्तं दुरासदम् ।।

तथा तदस्तु दाशार्ह यथा वागभ्यभाषत ।
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति ।।

त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि ।
नाहं तदभ्यसूयामि यथा वागभ्यभाषत ।।

नमो धर्माय महते धर्मो धारयति प्रजाः ।
एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः ।।

यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः।
न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः ।।

विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति।
यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः ।।

तावदेव महापबाहुर्निशासु न सुखं लभेत्।
सर्वधऱ्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः ।
व्रूया माधव कल्याणीं कृष्ण कृष्णां यशस्विनीम् ।।

युक्तमेतन्महाभागे कुले जाते यशस्विनि ।
यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः ।।

माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ ।
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ।।

विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ।
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ।।

यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनाम्।
पाञ्चाली परुषाण्युक्तका को नु तत्क्षन्तुमर्हति ।।

न राज्यहरणं दुःखं द्यूते चापि पराजयः।
प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् ।।

यत्र सा बृहती श्यामा सभायां रुदती तदा।
अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं महत् ।।

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा।
नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती ।।

तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ।
अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर ।।

विदितं हि तवात्यन्तं क्रूद्धाविव यमान्तकौ ।
भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ।।

तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता।
दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत।।

पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः ।
पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह ।।

मां वै कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन ।
अरिष्टं गच्छ पन्थानं पुत्रान्मे प्रतिपालय ।।

वैशंपायन उवाच।

अभिवाद्याथ तां कृष्णः कृत्वा चापि प्रदक्षिणम्।
निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः ।।

ततो विसर्जयामास भीष्मादीन्कुरुपुङ्गवान्।
आरोप्याथ रथे कर्णं प्रायात्सात्यकिना सह ।।

ततः प्रयाते दाशार्हे कुरवः सङ्गता मिथः ।
जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् ।।

प्रमूढा पृथिवी सर्वा मृत्युपाशवशीकृता ।
दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् ।।

ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः ।
मन्त्रयामास च तदा कर्णेन सुचिरं सह ।।

विसर्जयित्वा राधेयं सर्वयादवनन्दनः।
ततो जवेन महता तूर्णमश्वानचोदयत् ।।

ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः ।
हया जग्मुर्महावेगा मनोमारुतरंहसः ।।

ते व्यतीत्य महाध्वानं क्षिप्रं श्येना इवाशुगाः ।
उच्चैर्जग्मुरुपप्लाव्यं शार्ङ्गधन्वानमावहन् ।।

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
सप्तत्रिंशदधिकशततमोऽध्यायः ।।