उद्योगपर्व
अध्यायः १२६
वैशंपायन उवाच।
धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समव्यथौ।
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ।।
यावत्कृष्णावसन्नद्धौ यावत्तिष्ठति गाण्डिवम् ।
यावद्धौम्यो न मेधाग्नौ जुहोतीह द्विषद्बलम् ।।
यावन्न प्रेक्षते क्रूद्धः सेनां तव युधिष्ठिरः।
ह्रीनिषेवो महेष्वासस्तावच्छाम्यतु वैशसम् ।।
यावन्न दृश्यते पार्थः स्वेऽप्यनीके व्यवस्थितः।
भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् ।।
यावन्न चरते मार्गान्पृतनामभिधर्षयन् ।
भीमसेनो गदापाणिस्तावत्संशाम्य पाण्डवैः ।।
यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् ।
गदया वीरघातिन्या फलानीव वनस्पतेः ।
कालेन परिपक्वानि तावच्छाम्यतु वैशसम् ।।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।।
विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः ।।
यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् ।
कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ।।
यावन्न सुकुमारेषु शरीरेषु महीक्षिताम्।
गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् ।।
चन्दनागुरुदिग्धेषु हारनिष्कधरेषु च ।
नोरस्सु यावद्योधानां महेष्वासैर्महेषवः ।।
कृतस्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः ।
अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् ।।
अभिवादयमानं त्वां शिरसा राजकुञ्जरः ।
पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ।।
ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः ।
स्कन्धे निक्षिपतां बहुं शान्तये भरतर्षभ ।।
रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च।
उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ।।
शालस्कन्धो महाबहुस्त्वां स्वजानो वृकोदरः ।
साम्नाऽभिवदतां चापि शान्तये भरतर्षभ ।।
अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः।
मूर्ध्नि तान्समुपाघ्राय प्रेम्णाऽभिवद पार्थिव ।।
दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम् ।
यावदानन्दजाश्रूणि प्रन्मुञ्चन्तु नराधिपाः ।।
घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम् ।
पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ।।
।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
षड्विंशत्यधिकशततमोऽध्यायः ।।