स्वर्गारोहणपर्व

अध्यायः ५

Swargarohanika Parva (Sanskrit) · Adhyaya 5
अक्षर का आकार

जनमेजय उवाच।

भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः।
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा।।

धृष्टकेजुर्जयत्सेनो राजा चैव स सत्यजित्।
दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः।।

कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः।
घटोत्कवादयश्चैव ये चान्ये नानुकीर्तिताः।।

ये चान्ये कीर्तिता वीरा राजानो दीप्तमूर्तयः।
स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे।।

आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम।
अन्ते वा कर्मणां कां ते गतिं प्राप्ता नरर्षभाः।।

एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं द्विजोत्तम।
तपसा हि प्रदीप्तेन सर्वं त्वमनुपश्यति।।

सौतिरुवाच।

इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना।
व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे।

वैशम्पायन उवाच।

गन्तव्यं कर्मणामन्ते सर्वेषां मनुजाधिप।
शृणु गुह्यमिदं राजन्देवानां भरतर्षभ।
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान्।।

मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः।
अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम्।।

तेनोक्तं कर्मणामन्ते प्रविशन्ति स्विकां तनुम्।।

वसूनेव महातेजा भीष्मः प्राप महाद्युतिः।
अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ।।

बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम्।
कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणान्।।

सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम्।
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान्।।

धृतराष्ट्रो सहिता गन्धारी च यशस्विनी।
पत्नीभ्यां सहितः पाण्डुमहेन्द्रसदनं ययौ।।

विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः।
निशठाक्रूरसाम्बाश्च भानुः कण्वो विदूरथः।।

भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः।
कंशश्चैवोग्रसेनश्च वसुदेवस्तथैव च।।

उत्तरश्च सह भ्रात्रा शङ्खेन नरपुङ्गवः।
विश्वेषां देवतानां ते विविशुर्नरसत्तमाः।।

[वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान्।
सोभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत्।।

स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित्।]
विवेश सोमं धर्मात्मा कर्मणोन्ते मरारथः।।

आविवेश रविं कर्णो निहतः पुरुषर्षभ।
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम्।।

धृतराष्ट्रात्मजाः सर्वे यातुधानान्प्रपेदिरे।
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः।।

अनन्तो भगवान्देवः प्रविवेश रसातलम्।
पितामहनियोगाद्वै यो योगाद्गामधारयत्।।

यः स नारायणो नाम देवदेवः सनातनः।
तस्यांशो वासुदेवस्तु कर्मणोन्ते विवेश ह।।

षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहाः।
अमज्जंस्ताः सरस्वत्यां कालेन जनमेजय।।

तत्र त्यक्त्वा शरीराणि दिवमारुरुहुः पुनः।
ताश्चैवाप्सरसो भूत्वा वासुदेवमुपाविशन्।।

हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः।
घटोत्कचादयश्चैव देवान्यक्षांश्च भेजिरे।।

दुर्योधनसहायाश्च राक्षसा येऽनुकीर्तिताः।
प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान्।।

भवनं च महेन्द्रस्य कुबेरस्य च धीमतः।
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः।।

एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते।
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत।।

सौतिरुवाच।

एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः।
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ।।

ततः समापयामासुः कर्म तत्तस्य याजकाः।
आस्तिकश्चाभवत्प्रीतः परिमोक्ष्य भुजङ्गमान्।।

ततो द्विजातीन्सर्वास्तान्दक्षिणाभिरतोषयत्।
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम्।।

विसर्जयित्वा विप्रांस्तान्राजाऽपि जनमेजयः।
हृष्टस्तक्षशिलायाः स पुनरायाद्गचाह्वयम्।।

एतत्ते सर्वमाख्यातं वैशम्पायनकीर्तितम्।
व्यासाज्ञया समाज्ञातं सर्पसत्रे नृपस्य हि।।

पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम्।
कृष्णेन मुनिना विप्र निर्मितं सत्यवादिना।।

सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता।
अतीन्द्रियेण शुचिना तपसा भावितात्मना।।

ऐश्वर्ये वर्तता चैव साङ्ख्ययोगवता तथा।
नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा।।

कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्।।

`क्रीडां च वासुदेवस्य देवदेवस्य शाङ्गिणः।
विश्वेषां देवभागानां जन्मसायुज्यमेव च।।

य इदं शृणुयाद्विद्वान्पर्वसु द्विजसत्तमः।
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति।।

कार्ष्णं वेदमिमं सर्वं शृणुयाद्यः समाहितः।
ब्रह्महत्याकृतं पापं तत्क्षणादेव नश्यति।।

यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः।
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतदिष्ठते।।

अह्ना यदेनः कुरुते इन्द्रियैर्मनसाऽपि वा।
महाभारतमाख्याय सर्पपापैः प्रमुच्यते।।

[यद्रात्रौ कुरुते पापं ब्राह्मणः स्त्रीगणैर्वृतः।
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते।।

महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते।।

अष्टादशपुराणानि धर्मशास्त्राणि सर्वशः।
वेदाः साङ्गास्तथैकत्र भारतं चैकतः स्थितम्।।

श्रूयतां सिंहनादोऽयमृषेस्तस्य महात्मनः।
अष्टादशपुराणानां कर्तुर्वेदमहोदधेः।।

त्रिभिर्वर्षैर्महत्पुण्यं कृष्णद्वैपायनः प्रभुः।
अखिलं भारतं चेदं चकार भगवान्मुनिः।।

[आकर्ण्य भक्त्या सततं जयाख्यं भारतं महत्।
श्रीश्च कीर्तिस्तथा विद्या भवन्ति सहिताः सदा।।]

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रिचित्।।

"वाच्यते यत्र सततं जयाख्यं भारतं महत्।
श्रीश्व कीर्तिश्च विद्या च भवन्ति मुदिताः सदा।।

भारतस्य तु वक्तारं ब्रह्मर्षि च महागुरुम्।।
वैशंपायनमारोप्य स्वर्णभद्रासनं तदा।।

जनमेजयादिराजान आस्तिकाद्या द्विजातयः।
धर्मदत्तादिवैश्याश्च सोम्यवंश्यादिशूद्रकाः।।

प्रयुतं चायुतं चेति सहस्रं शतमित्यपि।
दशकं चेति निष्काणामानर्चुस्तं महागुरुम्।।

निष्काणां दशकं दत्त्वा मृतपुत्रोऽमृतप्रजः।
ऊष्मादिव्याधियुक्तश्च शतं दत्त्वा निरामयः।।

सहस्रदानात्संतानहीनः संतानपुत्रवान्।
आयुरारोग्यमैश्वर्यं भेजुस्तेऽन्नं च पुत्रकान्।।

सुवर्णं रजतं रत्नं सर्वाण्याभरणानि च।
सर्वोपकरणैर्युक्तं निधिनिक्षेपसंयुतम्।।

इष्टकाभित्तिसंयुक्तमग्निबाधादिवर्जितम्।
देवपूजाग्निहोत्रादिपाठार्थगृहसंयुतम्।
सान्तर्बहिस्संवरणं सप्रासादं सगोगृहम्।।

व्यष्ट्या समष्ट्या वा दद्यात्स्वर्गारोहणपर्वणि।
निवृत्तिकामो दद्याच्चेत्पुनर्जन्म न विद्यते।।

सकामश्चेद्ब्रह्मकल्पं सुकं ब्रह्मगृहे वसेत्।।

पुराणमुखतो यस्माद्वेदान्तज्ञानमाप्यते।
स तेन गुरुराख्यातस्तत्पूजा हीशपूजनम्।।

भारतस्य तु वक्तारं श्रोतारं लेखकांस्तदा।
प्रपूजयन्ति संहृष्टाः सिद्धाश्च परमर्षयः।।

महाभारतवक्तारं नार्चयन्तीह ये नराः।
तेषां सर्वक्रियाहानिर्भवेद्देवाः शपन्ति च।।'

जयो नामेतिहासोऽयं श्रोतव्यो जयमिच्छता।
राज्ञा राजसुतैश्चैव गर्भिण्या चैव योषिता।।

[स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम्।
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम्।।

अनागतश्च मोक्षश्च कृष्णद्वैपायनः प्रभुः।
संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया।।

षष्टिं शतसहस्राणि चकारान्यां स संहिताम्।
त्रिंशच्छतसहस्राणि देवलोके प्रतिष्ठितम्।।

पित्र्ये पञ्चदशं ज्ञेयं यक्षलोके चतुर्दश।
एकं शतसहस्रं तु मानुषेषु प्रभाषितम्।।

नारदोऽश्रावयद्देवानसितो देवलः पितॄन्।
रक्षोयक्षाञ्शुको मर्त्यान्वैशम्पायन एव तु।।

इतिहासमिमं पुण्यं महार्थं वेदसंमितम्।
व्यासोक्तं श्रूयते येन कृत्वा ब्राह्म्णमग्रतः।।

स नरः सर्वकामांश्च कीर्तिं प्राप्येह शौनक।
गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः।।

भारताध्ययनात्पुण्यादपि पादमधीयतः।
श्रद्धया परया भक्त्या श्राव्यते चापि येन तु।
य इमां संहितां पुण्यां पुत्रमध्यापयच्छुकम्।।

मातापितृसहस्राणि पुत्रदारशतानि च।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे।।

हर्षस्थानसहस्राणि भयस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम्।।

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते।।

न जातु कामान्न भयान्न लोभा-
द्धर्मं त्यजेज्जीवितस्यापि हेतोः।
नित्यो धर्मः सुखदुःखे त्वनिथ्ये
जीवो नित्यो हेतुरस्य त्वनित्यः।।

इमां भारतसावित्रीं प्रातरुत्थायः यः पठेत्।
स भारतफलं प्राप्य परं ब्रह्माधिगच्छति।।

कयथा समुद्रो भगवान्यथा हि हिमवान्गिरिः।
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते।।

कार्ष्णं देवमिमं विद्वाञ्श्रावयित्वाऽर्थमश्नुते।
इदं भारतमाख्यानं यः पठेत्सुसमाहितः।
स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः।।

द्वैपायनोष्ठपुटनिस्सृतमप्रमेयं
पुण्यं पवित्रमथ पापहरं शिवं च।
यो भारतं समधिगच्छति वाच्यमानं
किं तस्य पुष्करजलैरभिषेचनेन।।

यो गोशतं कनकशृङ्गमयं ददाति
विप्राय वेदविदुषे सुबहुश्रुताय।
पुण्यां च भारतकथां सततं शृणोति
तुल्यं फलं भवति तस्य च तस्य चैव।।]

"यद्यदिष्टतमं कामं लभते श्रद्धयाऽन्वितः।
शृणुयान्मुदितो भूत्वा आस्तिको बुद्धिसंयुतः।।

वासुदेवं स्मरन्विद्वान्पुण्डरीकायतेक्षणम्।
इतिहासमिमं पुण्यं महार्थं वेदसंमितम्।।

श्रावयेद्यस्तु वर्णादीन्कृत्वा ब्राह्मणमग्रतः।
सर्वपापविशुद्धात्मा शुचिस्तद्गतमानसः।।

इह कीर्तिं महत्प्राप्य भोगवान्सुखमश्नुते।
व्यासप्रसादेन पुनः स्वर्गलोकं स गच्छति।।

एतद्विदित्वा सर्वं तु सर्ववेदार्थविद्भवेत्।
पूजनीयश्च सततं माननीयो भवेद्द्विजः।।"

।। इति श्रीमन्महाभारते शतसाहस्र्यां
संहितायां वैयासिक्यां
स्वर्गारोहणपर्वणि पञ्चमोऽध्यायः।। 5 ।।

।। समाप्तं स्वर्गारोहणपर्व।। 18 ।।
इति श्रीमन्महाभारतं समाप्तम्।।

---------------