स्त्रीपर्व
अध्यायः १२
वैशम्पायन उवाच।
तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः।
कृतशौचं पुनश्चैनं ओवाच मधुसूदनः।।
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च।
श्रुतानि च पुराणानि राजधर्माश्च केवलाः।।
एवं विद्वान्महाप्राज्ञः समर्थः सन्बलाबले।
आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम्।।
उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत।
विदुरः सञ्जयश्चैव वाक्यं राजन्न तत्कृथाः।।
स वार्यमाणो नास्माकमकार्षीर्वचनं तदा।
पाण्डवानधिकाञ्चानन्बले शौर्ये च कौरव।।
राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते।
देशकालविभागं च परं श्रयेः स विन्दति।।
उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते।
आपदः समनुप्राप्य सोऽभ्येति विलयं किल।।
ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत।
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः।।
आत्मापराधादापन्नस्तत्किं भीमं जिघांससि।
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम्।।
यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्समाम्।
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता।।
आत्मनोऽतिक्रमं पश्य पुंत्रस्य च दुरात्मनः।
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः।।
वैशम्पायन उवाच।
एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप।
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः।।
एवमेतन्महाबाहो यथा वदसि माधव।
पुत्रस्नेहस्तु बलवान्धर्मान्मां समचालयत्।।
दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यक्त्रिमः।
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम।।
इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः।
मध्यमं पाण्डवं वीरं स्पष्टुमिच्छामि माधव।।
हतेषु पारथिवेन्द्रेषु पुत्रेषु निहतेषु च।
पाण्डुपुत्रेषु मे धर्मः प्रीतिश्चाप्यवतिष्ठते।।
ततः स भीमं च धनञ्जयं च
माद्याश्च पुत्रौ पुरुषप्रवीरौ।
पस्पर्श गात्रैः प्ररुदन्सुगात्रा--
नाश्वास्य कल्याणमुवाच चैनान्।।
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
जलप्रदानिकपर्वणि द्वादशोऽध्यायः।। 12 ।।