सौप्तिकपर्व

अध्यायः ११

Sauptika Parva (Sanskrit) · Adhyaya 11
अक्षर का आकार

वैशम्पायन उवाच।

स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्पात्रौन्सखींस्तथा।
महादुःखपरीतात्मा बभूव जनमेजय।।

ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः।
स्मरतः पुत्रपौत्रांस्तान्भ्रातॄन्सुहृद एव च।।

तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्।
सुहृदो भृशसंविग्नाः सांत्वयाञ्चक्रिरे तदा।।

`कृत्वा तु विधिवत्तेषां पुत्राणाममितौजसाम्।
प्रेतकार्याणि सर्वेषां बभूव भृशदुःखितः'।।

तस्मिन्मुहूर्ते जवनैर्वाजिभिर्हेममालिभिः।
नकुलः कृष्णया सार्धमुपायात्परमार्तया।।

उपप्लाव्यं गता सा तु श्रुत्वा सुमहदप्रियम्।
तदा विनाशं सर्वेषां पुत्राणां व्यथितेन्द्रिया।।

कम्पमानेव कदली वातेनाभिसमीरिता।
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि।।

न बभौ वदनं तस्या रुदन्त्याः शोककर्शितम्।
फुल्लपद्मपलाशाक्ष्या मेघावृत इवोडुराट्।।

ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः।
वाहुभ्यां परिजग्राह समुत्पत्य वृकोदरः।।

सा समाश्वासिता तेन भीमसेनेन भामिनी।
रुदती पाण्डवज्येष्ठमिदं वचनमब्रवीत्।।

दिष्ट्या राजन्नवाप्येमामखिलां भोक्ष्यसे महीम्।
आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै।।

दिष्ट्या सर्वास्त्रकुशलं मत्तमातङ्गामिनम्।
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि।।

आत्मजान्क्षत्रधर्मेण श्रुत्वा शूरान्निपातितान्।
स्थितो राज्ये मया सार्धं विहरन्न स्मरिष्यसि।।

प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा।
शोको मां दहते गाढो हुताशन इवाश्रयम्।।

तस्य पापकृतो द्रौणेर्न चेदद्य दुरात्मनः।
हियते सानुबन्धस्य युधि विक्रम्य जीवितम्।।

इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः।
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः।।

एवमक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत्।
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी।।

दृष्ट्वोपविष्टां राजा तु पाण्डवो महिषीं प्रियाम्।
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम्।।

क्षत्रधर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे।
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि।।

स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः।
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने।।

द्रौपद्युवाच।

द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः।
निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम्।
द्रौणेः शिरस उत्कृत्य जीवेयमिति मे मतिः।।

इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना।
भीमसेनकरे स्पृष्ट्वा कुपिता वाक्यमब्रवीत्।।

त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्।
जहि तं पापकर्माणं शम्बरं सघवानिव।।

न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन।
श्रुतं तत्सर्वलोकेषु परमव्यसने तथा।।

द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते।
हिडिम्बदर्शने चैव तथां त्वमभवो गतिः।।

तथा विराटनगरे कीचकेन भृशार्दिताम्।
मामप्युद्वृतवान्कृच्छ्रात्पौलोमीं मघवानिव।।

यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा।
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव।।

वैशम्पायन उवाच।

तस्या बहुविधं दुःखं निशम्य परिदेवितम्।
न चामर्षत कौन्तेयो भीमसेनो महाबलः।।

स काञ्चनविचित्राङ्गमारुरोह महारथम्।
आदाय रुचिरं चित्रं समार्गणगुणं धनुः।।

नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः।
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत्।।

ते हयाः पुरुषव्याघ्र दीप्यमानाः स्वतेजसा।
वहन्तः सहसा जग्मुर्हरयः शीघ्रगामिनः।।

शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः।
`द्रोणपुत्रगतेनाशु ययौ मार्गेण भारत'।।

।। इति श्रीमन्महाभारते सौप्तिकपर्वणि
ऐषीकपर्वणि एकादशोऽध्यायः।। 11 ।।