शांतिपर्व

अध्यायः ९३

Santi Parva (Sanskrit) · Adhyaya 93
अक्षर का आकार

वामदेव उवाच।

यत्राधर्मं प्रणयते दुर्बले बलवत्तरः।
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः।।

राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम्।
अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति।।

यद्वॄत्तमुपजीवन्ति प्रकृतिस्थस्य मानवाः।
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते।।

साहसप्रवृत्ते र्यत्र किंचिदुल्वणमाचरेत्।
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति।।

सद्वॄत्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते।
जितानामजितानां च क्षत्रधर्मादपैति सः।।

द्विषन्तं कृतकल्याणं गृहीत्वा नृपतिं रणे।
यो न नयते द्वेषात्क्षत्रधर्मादपैति सः।।

शक्तः आत्सुसुखो राजा कुर्यात्तारणमापदि।
प्रियो अति भूतानां न च विभ्रश्यते श्रियः।।

अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत्।
अचिरेण प्रियः स स्याद्योऽप्रिये प्रियमाचरेत्।।

मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः।
न कामान्न च संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्।।

`अमाययैव वर्तेत न च सत्यं त्यजेद्बुधः।
दमं धर्मं च शीलं च क्षत्रधर्मं प्रजाहितम्।।'

नापत्रपेत प्रश्नेषु नाभिभाविगिरं सृजेत्।
न त्वरेत न चासूयेत्तथा संगृह्यते परः।।

प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत्।
न तप्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन्।।

यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः।
तस्य कर्माणि सिद्ध्यन्ति न च संत्यज्यते श्रिया।।

निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये।
भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह।।

अप्रकीर्णेन्द्रियग्राममत्यन्तानुगतं शुचिम्।
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि।।

`श्रेयसो लक्षणं चैतद्विक्रमो यत्र दृश्यते।
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति।
समर्थान्पूजयेद्यश्च न च स्पर्धेत यश्चतैः।।

एवमेतैर्गुणैर्युक्तो योऽनुरज्यति भूमिपम्।
भर्तुरर्थेष्वप्रमत्तं नियुञ्ज्यादर्थकर्मणि।।

मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम्।
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम्।।

त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम्।
कार्ये महति युञ्जानो हीयते नृपतिः श्रिया।।

रक्षितात्मा च यो राजा रक्ष्यान्यश्चानुरक्षति।
प्रजाश्च तस्य वर्धन्ते सुखं च महदश्नुते।।

ये केचिद्भूमिपतयः सर्वांस्तानन्ववेक्षयेत्।
सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते।।

अपकृत्य बलस्थस्व दूरस्थोऽस्मीति नाश्वसेत्।
श्येनाभिपतनैरेते निपतन्ति प्रमाद्यतः।।

दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः।
अबलानभियुञ्जीत न तु ये बलवत्तराः।।

विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयेत्।
आहवे निधनं कुर्याद्राजा धर्मपरायणः।।

मरणान्तमिदं सर्वं नेह किंचिदनामयम्।
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेम पालयेत्।।

रक्षाधिकरणं युद्धं तथा धर्मानुशासनम्।
मन्त्रचिन्ता सुखं काले पञ्चभिर्वर्धते मही।।

एतानि यस्य गुप्तानि स राजा राजसत्तम।
सततं वर्तमानोऽत्र राजा भुङ्‌क्ते महीमिमाम्।।

नैतान्येकेन शक्यानि सातत्येनानुवीक्षितुम्।
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते चिरं महीम्।।

दातारं संविभक्तारं मार्दवोपगतं शुचिम्।
असंत्यक्तमनुष्यं च तं जनाः कुर्वते नृपम्।।

यस्तु नैःश्रेयसं श्रुत्वा ज्ञानं तत्प्रतिपद्यते।
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते।।

योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते।
शृणोति प्रतिकूलानि सर्वदा विमना इव।।

अग्राम्यचरितां वृत्तिं यो न सेवेत नित्यदा।
जितानामजितानां च क्षत्रधर्मादपैति सः।।

[निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात्।
एतेभ्यो नित्ययुक्तः सन्रक्षेदात्मानमेव तु।।]

मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान्।
स वै व्यसनमासाद्य साधुमार्गं न विन्दति।।

यः कल्याणगुणाञ्ज्ञातीन्प्रद्वेषान्नो बुभूषति।
अदृढात्मा दृढक्रोधः नास्यार्थो वसतेऽन्तिके।।

अथ यो गुणसंपन्नान्हृदयस्य प्रियानपि।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति।।

नाकाले प्रणयेदर्थान्नाप्रिये जातु संज्वरेत्।
प्रिये नातिभृशं तुष्येद्युञ्जीतारोग्यकर्मणि।।

के वाऽनुरक्ता राजानः के भयात्समुपाश्रिताः।
मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत्।।

न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित्।
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः।।

अपि सर्वगुणैर्युक्तं भर्तारं प्रियवादिन।
अभिद्रुह्यति पापात्मा न तस्माद्विश्वसेज्जनान्।।

एतद्राजोपनिषदं ययातिः स्माह नाहुषः।
मनुष्यविषये युक्तो हन्ति शत्रून्सवासवान्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि त्रिनवतितमोऽध्यायः।। 93।।