शांतिपर्व
अध्यायः ५५
वैशंपायन उवाच।
प्रणिपत्य हृषीकेशमभिवाद्य पितामहम्।
अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः।।
राज्ञां वै परमो धर्म इति धर्मविदो विदुः।
महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव।।
राजधर्मान्विशेषेण कथयस्य पितामह।
सर्वस्य जीवलोकस्य राजधर्मः परायणम्।।
त्रिवर्गो हि समासक्तो राजधर्मेषु कौरव।
मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः।।
यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा।
नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम्।।
अत्र वै संप्रमूढे तु धर्मे राजर्षिसेविते।
लोकस्य संस्था न भवेत्सर्वं च व्याकुलीभवेत्।।
उदयन्हि यथा सूर्यो नाशयत्यशुभं तमः।
राजधर्मस्तथा लोक्यामाक्षिपत्यशुभां गतिम्।।
तदग्रे राजधर्मान्हि मदर्थे त्वं पितामह।
प्रब्रूहि भरतश्रेष्ठ त्वं हि धर्मभूतां वरः।।
आगमश्च परस्त्वत्तः सर्वेषां नः परन्तप।
भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते।।
भीष्म उवाच।
नमो धर्माय महते नमः कृष्णाय वेधसे।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्।।
शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर।
निरुच्यमानान्नियतो यच्चान्यदपि वाञ्छसि।।
आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनमिच्छता।
देवतानां द्विजानां च वर्तितव्यं यथाविधि।।
दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह।
आनृण्यं याति धर्मस्य लोकेन च समर्च्यते।।
उत्थानेन सदा पुत्र प्रयतेथा युधिष्ठिर।
न ह्युत्थानमृते दैवं राज्ञामर्थं प्रसाधयेत्।।
साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च।
पौरुषं हि परं मन्ये दैवं निश्चित्य मुह्यते।।
विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः।
घटेतैवं सदाऽऽत्मानं राज्ञामेष परो नयः।।
न हि सत्यादृते किंचिद्राज्ञां वै सिद्धिकारकम्।
सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति।।
ऋषीणामपि राजेन्द्र सत्यमेव परं धनम्।
तथा राज्ञां परं सत्यान्नान्यद्विश्वासकारणम्।।
गुणवाञ्शीलवान्दान्तो मृदुदण्डो जितेन्द्रियः।
सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः।।
आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन।
पुनर्नयविचारेण त्रयीसंवरणेन च।
`आर्जवेन समायुक्ता मोदन्ते ऋषयो दिवि।।'
मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः।
तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचरेत्।।
अदण्ड्याश्चैव ते पुत्र विप्राः स्युर्ददतां वर।
भूतमेतत्परं लोके ब्राह्मणा नाम पाण्डव।।
मनुना चात्र राजेन्द्र गीतौ श्लोकौ महात्मना।
धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि।।
अभ्द्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति।।
अयो हन्ति यदाऽश्मानमग्निरापो निहन्ति च।
ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः।।
एवं कृत्वा महाराज नमस्या एव ते द्विजाः।
भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः।।
एवं चैव नरव्याघ्र लोकयात्राविघातकाः।
निग्राह्या एव बाहुभ्यां ब्राह्मणास्ते नरेश्वर।।
श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा।
तौ निवोध महाराज त्वमेकाग्रमना नृप।।
उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे।
निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नराधिपः।।
विनश्यमानं धर्मं हि योऽभिरक्षेत्स धर्मवित्।
न तेन धर्महा स स्यान्मन्युस्तन्मन्युमृच्छति।।
एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः।
सापराधानपि हि तान्विषयान्ते समुत्सृजेत्।।
अभिशस्तमपि ह्येषां पीडयेन्न विशांपते।
ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च।।
राजद्विष्टे च विप्रस्य विषयान्ते विवासनम्।
विधीयते न शारीरं भयमेषां कदाचन।।
दयिताश्च नरास्ते स्युर्भक्तिमन्तो द्विजेषु ये।
न शोकः परमा तुष्टी राज्ञां भवति संचयात्।।
दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः।
सर्वदुर्गेषु मन्यन्ते नरदुर्गं सुदुर्गमम्।।
तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता।
धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः।।
न च क्षान्तेन ते नित्यं भाव्यं पुरुषसत्तम।
अधर्मो हि मृद् राजा क्षमावानिव कुञ्जरः।।
वार्हस्पत्ये च शास्त्रे च श्लोकोऽयं नियतः प्रभो।
अस्मिन्नर्थे निगदितस्तन्मे निगदतः शृणु।।
क्षममाणं नृपं नित्यं नीचः परिभवेञ्जनः।
हस्तियन्ता गजस्येव शिर एवारुरुक्षति।।
तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वाऽपि भवेन्नृपः।
वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः।।
प्रत्यक्षेणानुमानेन तथौपम्यागमैरपि।
परीक्ष्यास्ते महाराज स्वे परे चैव नित्यशः।।
व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण।
नचैतानि प्रयुञ्जीथाः सङ्गं तु परिवर्जय।।
व्यसनी यस्तु लोकेऽस्मिन्परिभूतो भवत्युत।
उद्वेजयति लोकं च योऽतिद्वेषी महीपतिः।।
भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा।
कारणं च महाराज शृणु येनेदमुच्यते।।
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम्।
गर्भस्य हितमाधत्ते तथा राज्ञाऽप्यसंशयम्।।
वर्तितव्यं कुरुश्रेष्ठ सदा धर्मानुवर्तिना।
स्वं प्रियं तु परित्यज्य यद्यल्लोकहितं भवेत्।।
न सन्त्याज्यं च ते धैर्यं कदाचिदपि पाण्डव।
धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते।।
परिहासश्च भृत्यैस्ते नात्यर्थं वदतां वर।
कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु।।
अवमन्यन्ति भर्तारं सहर्षमुपजीविनः।
स्वे स्थाने न च तिष्ठन्ति लङ्घ्यन्ति च तद्वचः।।
प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते।
अयाच्यं चैव याचन्ते भोज्यान्याहारयन्ति च।।
क्रुथ्यन्ति परिदीप्तन्ति भूमिपायाधितिष्ठते।
उत्कोचैर्वञ्चनाभिश्च कार्याणि घ्नन्ति चास्य ते।।
जर्झरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः।
स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च।।
वान्तं निष्ठीवनं चैव कुर्वते चास्य सन्निधौ।
निर्लज्जा राजशार्दूल व्याहरन्ति च तद्वचः।।
हयं वा दन्तिनं वाऽपि रथं वा नृपसंमतम्।
अधिरोहन्त्यवज्ञाय सहर्षाः पार्थिवे मृदौ।।
इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम्।
इत्येवं सुहृदो नाम ब्रुवते परिपद्गताः।।
क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः।
सङ्घर्षशीलाश्च तदा भवन्त्यन्योन्यकारणात्।।
विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम्।
लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम्।।
अलङ्काराणि भोज्यं च तथा स्नानानुलेपने।
हेलयाना नरव्याघ्र स्वस्थास्तस्योपभुञ्जये।।
निन्दन्ते स्वानधीकारान्सन्त्यजन्ते च भारत।
न वृत्त्या परितृष्यन्ति राजदेयं हरन्ति च।।
क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा।
अस्मत्प्रणेयो राजेति लोकांश्चैव वदन्त्युत।।
एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत।
नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि पञ्चपञ्चाशोऽध्यायः।। 55।।