शांतिपर्व

अध्यायः ३४०

Santi Parva (Sanskrit) · Adhyaya 340
अक्षर का आकार

भीष्म उवाच।

गिरिशृङ्गं समारुह्य सुतो व्यासस्य भारत।
समे देशे विविक्ते स निःशलाक उपाविशत्।।

धारयामास चात्मानं यथाशास्त्रं यथाविधि।
पादप्रभृतिगात्रेषु क्रमेण क्रमयोगवित्।।

ततः स प्राङ्भुखो विद्वानादित्ये नाचिरोदिते।
पाणिपादं समाधाय विनीतवदुपाविशत्।।

न तत्र पक्षिसंपातो न शब्दो नापि दर्शनम्।
यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे।।

स ददर्श तदाऽऽत्मानं सर्वसङ्गविनिःसृतम्।
प्रजहास ततो हासं शुकः संप्रेक्ष्य तत्परम्।।

स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये।
महायोगेश्वरो भूत्वा सोऽत्यक्रामद्विहायसम्।।

ततः प्रदक्षिणं कृत्वा देवर्षि नारदं ततः।
निवेदयामास च तं स्वं योगं परमर्षये।।

शुक उवाच।

दृष्टो मार्गः प्रवृत्तोस्मि स्वस्ति तेऽस्तु तपोधन।
त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते।।

नारदेनाभ्यनुज्ञातः शुको द्वैपायनात्मजः।
अभिवाद्य पुनर्योगमास्थायाकाशमाविशत्।।

कैलासपृष्ठादुत्पत्य स पपात दिवं तदा।
अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः।।

तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम्।
ददृशुः सर्वभूतानि मनोऽमारुतरंहसम्।।

व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन्।
आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः।।

तमेकमनसं यान्तमव्यग्रमकुतोभयम्।
ददृशुः सर्वभूतानि जङ्गमानीतराणि च।।

यथाशक्ति यथान्यायं पूजयांचक्रिरे तदा।
पुष्पवर्षेश्च दिव्यैस्तमलंचक्रुर्दिवौकसः।।

तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः।
ऋषयश्चैव संसिद्धाः परं विस्मयमागताः।।

अन्तरिक्षगतः कोऽयं तपसा सिद्धिमागतः।
अधः कायोर्ध्ववक्रश्च नेत्रैः समतिवाह्यते।।

ततः परमधर्मात्मा त्रिषु लोकेषु विश्रुतः।
भास्करं समुदीक्षन्स प्राङ्भुखो वाग्यतोऽगमत्।
शब्देनाकाशमखिलं पूरयन्निव सर्वशः।।

तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः।
संभ्रान्तमनसो राजन्नासन्परमविस्मिताः।
पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः।।

दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम्।
सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम्।।

ततः समभिचक्राम मलयं नाम पर्वतम्।
उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवतः।।

तस्य ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम्।
अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे।।

अचिरेणैव कालेन नभश्चरति चन्द्रवत्।
पितृशुश्रूषया बुद्धिं संप्राप्तोऽयमनुत्तमाम्।।

पितृभक्तो दृढतपाः पितुः सुदयितः सुतः।
अनन्यमनसा तेन कथं पित्रा विसर्जितः।।

उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित्।
उदैक्षत दिशः सर्वा वचने गतमानसः।।

सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम्।
विलोकयामास तदा सरांसि सरितस्तथा।।

ततो द्वैपायनसुतं बहुमानात्समन्ततः।
कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः।।

अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित्।
पिता यद्यनुगच्छेन्मां क्रोशमान शुकेति वै।।

तस्य प्रतिवचो देयं सर्वैरेव समाहितैः।
एतन्मे स्नेहनः सर्वे वचनं कर्तुमर्हथ।।

शुकस्य वचन श्रुत्वा दिशः सजलकाननाः।
समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः।।

यथा ज्ञापयसे विप्र बाढमेवं भविष्यति।
ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम्।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
चत्वारिंशदधिकत्रिशततमोऽध्यायः।। 340।।