शांतिपर्व
अध्यायः ३३०
युधिष्ठिर उवाच।
यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च।
गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
आत्मनाऽनर्थयुक्तेन पापे निविशते मनः।
स कर्म कलुषं कृत्वा क्लेशे महति धीयते।।
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम्।
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः।।
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम्।
श्रद्दधानाश्च दान्ताश्च धनस्याः शुभकारिणः।।
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च।
हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम्।।
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः।
क्षेम्यमात्मवता मार्गमास्थिता हस्तदक्षिणाः।।
पुलाका इव धान्येषु पूत्यण्डा इव पक्षिषु।
तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम्।।
सुशीघ्रमपि धावन्तं विधानमनुधावति।
शेते सह शयानेन येनयेन यथाकृतम्।।
पापं तिष्ठति तिष्ठन्तं धावन्तमनुधावति।
करोति कुर्वतः कर्म च्छायेवानुविधीयते।।
येनयेन यथा यद्यत्पुरा कर्म सुनिश्चितम्।
तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना।।
समानकर्मनिक्षेपं विधानपरिरक्षणम्।
भूतग्राममिमं कालः समन्तादपकर्षति।।
अचोद्यमानानि यथा पुष्पाणि च फलानि च।
स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम्।।
समानश्चावमानश्च लाभालाभौ जयाजयौ।
प्रवृत्ता न निवर्तन्ते निधनान्ताः पदेपदे।।
आत्मना विहितं दुःखमात्मना विहितं सुखम्।
गर्भशय्यामुपादाय भजते पूर्वदेहिकम्।।
बालो युवा वा वृद्धश्च यत्करोति शुभाशुभम्।
तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि।।
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति।।
मलिनं हि यथा वस्त्रं पश्चाच्छुध्यति वारिणा।
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम्।।
दीर्घकालेन तपसा सेवितेन तपोवने।
धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः।।
शकुनानामिवाकाशे मत्स्यानामिव चोदके।
पदं यथा न दृश्येत तथा पुण्यकृतां गतिः।।
अलमन्यैरुपालब्धैः कीर्तितैश्च व्यतिक्रमैः।
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
त्रिंशदधिकत्रिशततमोऽध्यायः।। 330।।