शांतिपर्व
अध्यायः ३३
युधिष्ठिर उवाच।
कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः।
किं कृत्वा मुच्यते तत्र तन्मे ब्रूहि पितामह।।
व्यास उवाच।
अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन्।
प्रायश्चित्तीयते ह्येवं नरो मिथ्याऽनुवर्तयन्।।
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत।
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि।।
परिवित्तिः परिवेत्ता ब्रह्मेज्यायाश्च दूषकः।
दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च।।
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा।
अतीर्थे ब्राह्मणस्त्यागी तीर्थे चाप्रतिपादकः।।
ग्रामयाजी च कौन्तेय मांसस्य परिविक्रयी।
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी।।
शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः।
वृथा पशुसमालम्भी वनदाहस्य कारकः।।
अनृतेनोपवर्ती च प्रतिषेद्धा गुरोस्तथा।
`स्वदत्तस्यापहर्ता च परदत्तनिरोधकः।।
वाग्दत्तं च मनोदत्तं धारादत्तं च यो हरेत्।
पाकभेदेन भोक्ता च भुञ्जानस्याप्यनादरः।।
स्वजनैः कलहं चैव आश्रितानामरक्षणम्। '
एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः।।
अकार्याणि तु वक्ष्यामि यानि तानि निबोध मे।
लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु।।
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया।
अयाज्ययाजनं चैव तथाऽभक्ष्यस्य भक्षणम्।।
शरणागतसंत्यागो भृत्यस्याभरणं तथा।
रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा।।
आधानादीनि कर्माणि शक्तिमान्न करोति यः।
अप्रयच्छंश्च सर्वाणि नित्यदेयानि भारत।।
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम्।
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः।।
पित्रा विवदते पुत्रो यश्च स्याद्गुरुतल्पगः।
अप्रजायन्नरव्याघ्र भवत्यधार्मिको नरः।।
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च।।
यानि कुर्वन्निकुर्वंश्च प्रायश्चित्तीयते नरः।
एतान्येव तु कर्माणि क्रियमाणानि मानवैः।
येषुयेषु निमित्तेषु न लिप्यन्तेऽथ ताञ्शृणु।।
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्।।
इति चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते।
वेदप्रमाणविहितं धर्मं च प्रब्रवीमि ते।।
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम्।
न तेन ब्रह्महा स स्यान्मन्युस्तन्मन्युमृच्छति।।
प्राणात्यये तथा ज्ञानादाचरन्मदिरामपि।
आदेशितो धर्मपरैः पुनः संस्कारमर्हति।।
एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम्।
प्रायश्चित्तविधानेन सर्वमेतेन शुद्ध्यति।।
गुरुतल्पं हि गुर्वर्थं न दूषयति मानवम्।
उद्दालकः श्वेतकेतुं जनयामास शिष्यतः।।
स्तेयं कुर्वंश्च गुर्वर्थमापत्सु न निषिध्यते।
बहुशः कामकारेण न चेद्यः संप्रवर्तते।।
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति।
स्वयमप्राशिता यश्च न स पापेन लिप्यते।।
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य च।
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च।।
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन।
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते।।
पारिवित्त्यं तु पतिते नास्ति प्रव्रजिते तथा।
भिक्षिते पारदार्यं च तद्धर्मस्य न दूषकम्।।
वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत्।
भ्रनुग्रहः पशूनां हि संस्कारो विधिनोदितः।।
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम्।
सत्काराणां तथा तीर्थे नित्यं वा प्रतिपादनम्।।
स्त्रियास्तथापचारिण्या निष्कृतिः स्याददूषिका।
अपि सा पूयते तेन न तु भर्ता प्रदुष्यति।।
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददोषवान्।
असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान्।।
वनदाहो गवामर्थे क्रियमाणो न दूषकः।
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति।।
प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत।
`यानि कृत्वा नरः पूतो भविष्यति नराधिप।।'
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि त्रयस्त्रिंशोऽध्यायः।। 33।।