शांतिपर्व
अध्यायः ३
नारद उवाच।
कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च।
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा।।
ततस्तस्मै महातेजा ब्रह्मास्त्रं सनिवर्तनम्।
प्रोवाच सुमहाप्रज्ञः स तपस्वी तपस्विने।।
विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः।
चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः।।
ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात्।
कर्णेन सहितो धीमानुपवासेन कर्शितः।।
सुष्वाप जामदग्न्यस्तु विस्रम्भोत्पन्नसौहृदः।
तस्योत्सङ्गे समाधाय शिरः क्लान्तमना गुरुः।।
अथ क्रिमिः श्लेष्ममयो मांसशोणितभोजनः।
दारुणो दारुणाकारः कर्णस्याभ्याशमागतः।।
स तस्योरुमथासाद्य बिभेद रुधिराशनः।
न चैनमशकत्क्षेप्तुं वक्तुं वाऽपि गुरोर्भयात्।।
स दश्यमानोऽपि तथा कृमिणा तेन भारत।
गुरोः प्रबोधनाकाङ्क्षी तमुपैक्षत सूर्यजः।।
कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम्।
अकम्पयन्नव्यथयन्धारयामास भार्गवम्।।
यदा स रुधिरेणाङ्गे परिस्पृष्टोऽभवद्गुरुः।
तदाऽबुध्यत तेजस्वी संरब्धश्चैनमब्रवीत्।।
अहोऽस्म्यशुचितां प्राप्तः किमिदं च कृतं त्वया।
कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम।।
तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम्।
ददर्श रामस्तं चापि कृमिं सूकरसंस्थितम्।।
अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिः परिसंवृतम्।
रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः।।
स दृष्टमात्रो रामेण किमिः प्राणानवासृजत्।
तस्मिन्नेवासृजि क्लिन्नस्तदद्भुतमिवाभवत्।।
ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान्।
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः।।
स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः।
स्वस्ति ते भृगुशार्दूल गमिष्येऽहं यथागतम्।।
मोक्षितो नरकादस्माद्भवता मुनिसत्तम।
भद्रं च तेऽस्तु सिद्धिश्च प्रियं मे भवता कृतम्
तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान्।
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत्।।
सोऽब्रवीदहमासं प्राग्दंशो नाम महासुरः।
पुरा देवयुगे तात भृगोस्तु सवया इव।।
सोऽहं भृगोः सुदयितां भार्यामपहरं बलात्।
महर्षेरभिशापेन क्रिमिभूतोऽपतं भुवि।।
अब्रवीद्धि स मां क्रुद्धस्तव पूर्वपितामहः।
मूत्र श्लेष्माशनः पाय निरयं प्रतिपत्स्यसे।।
शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रवम्।
भविता भार्गवाद्रामादिंति मामब्रवीद्भृगुः।।
सोऽहमेनां गतिं प्राप्तो यथा नकुशलस्तथा।
त्वया साधो समागम्य विमुक्तः पापयोनितः।।
एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः।
रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत्।।
अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत्।
क्षत्रियस्येव ते धैर्यं कामया सत्यमुच्यताम्।।
तमुवाच ततः कर्णः शापाद्भीतः प्रसादयन्।
ब्रह्मक्षत्रान्तरे जातं सूतं मां विद्धि भार्गव।।
राधेयः कर्ण इति मां प्रवदन्ति जना भुवि।
प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव।।
पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः।
अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके।।
तमुवाच भृगुश्रेष्ठः सरोपः प्रदहन्निव।
भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम्।।
यस्मान्मिथ्याविचीर्णोऽहमस्त्रलोभादिह त्वया।
तस्मादेतन्न ते मूढ ब्रह्मास्त्रं प्रतिभास्यति।।
अन्यत्र वधकालात्ते सदृशे न समीयुपः।
अब्राह्मणे न हि ब्रह्म चिरं तिष्ठेत्कदाचन।।
गच्छेदानीं न ते स्थानमनृतस्येह विद्यते।
न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि।।
एवमुक्तः स रामेण न्यायेनोपजगामह।
दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि तृतीयोऽध्यायः।। 3।।