शांतिपर्व

अध्यायः २९८

Santi Parva (Sanskrit) · Adhyaya 298
अक्षर का आकार

पराशर उवाच।

कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति।
प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना।।

गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत्।
सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम्।।

विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ।
तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः।।

न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम्।
संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः।।

न धर्मार्थी नृशंसेन कर्मणा धनमार्जयेत्।
शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरन्।।

अपो हि प्रयताः शीतास्तापिता ज्वलनेन वा।
शक्तितोऽतिथये दत्त्वा क्षुधार्तायाऽश्नुते फलम्।।

रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना।
फलपत्रैरथो मूलैर्मुनीनचिंतवांश्च सः।।

तैरेव फलपत्रैश्च स माठरमतोषयत्।
तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः।।

देवतातिथिभृत्येभ्यः पितृभ्यश्चात्मनस्तथा।
ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत्।।

स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा।
पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च।।

पाकशेपावहार्येण पालनेनात्मनोऽपि च।
यथावद्भृत्यवर्गस्य चिकीर्षेत्कर्म आदितः।।

प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः।
सम्यग्घृत्वा हुतवहं मुनयः सिद्धिमागताः।।

विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत्।
ऋग्भिः स्तुत्वा महाबाहो देवान्वै यज्ञभागिनः।।

गतः शुक्रत्वमुशना देवदेवप्रसादनात्।
देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः।।

असितो देवलश्चैव तथा नारदपर्वतौ।
कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथाऽऽत्मवान्।।

वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च।
भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः।।

एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः।
लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः।।

अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह।
न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम्।।

येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान्।
धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया।।

आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः।
वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो।।

च चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते।
श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम्।।

अग्निरात्मा च माता च पिता जनयिता तथा।
गुरुश्च नरशार्दूल परिचर्या यथातथम्।।

मानं त्यक्त्वा यो नरो वृद्धसेवी
विद्वान्क्लीबः पश्यति प्रीतियोगात्।
दाक्ष्येण हीनो धर्मयुक्तो न दान्तो
लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टनवत्यधिकद्विशततमोऽध्यायः।। 298।।