शांतिपर्व
अध्यायः २९६
युधिष्ठिर उवाच।
अतः परं महाबाहो यच्छ्रेयस्तद्ब्रवीहि मे।
न तृप्याम्यमृतस्येव वचसस्ते पितामह।।
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम।
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद।।
भीष्म उवाच।
अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः।
पराशरं महात्मानं पप्रच्छ जनको नृपः।।
किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च।
यद्भवेत्प्रतिपत्त्व्यं तद्भवान्प्रब्रवीतु मे।।
ततः स तपसा युक्तः सर्वधर्मविधानवित्।
नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत्।।
पराशर उवाच।
धर्म एव कृतः श्रेयानिह लोके परत्र च।
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः।।
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते।
धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम।।
तस्मिन्त्राश्रमिणः सन्तः स्वकर्माणीह कुर्वते।।
चतुर्विधा हि लोकेऽस्मिन्यात्रा तात विधीयते।
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते।।
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः।
दशार्धप्रविभक्तानां भूतानां विविधा गतिः।।
सौवर्णं राजतं चापि यथा भाण्डं निषिच्यते।
तथा निपिच्यते जन्तुः पूर्वकर्मवशानुगः।।
नाबीजाज्जायते किंचिन्नाकृत्वा सुखमेधते।
सुकृतैर्विन्दते सौख्यं प्राप्य देहक्षयं नरः।।
दैवं तात न पश्यामि नास्ति दैवस्य साधनम्।
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः।।
प्रेत्य यान्त्यकृतं कर्म न स्मरन्ति सदा जनाः।
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम्।।
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः।
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम्।।
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते।।
निरन्तरं च मिश्रं च लभते कर्म पार्थिव।
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते।।
कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति।
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते।।
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते।
सुकृतक्षयाच्च दुष्कृतं तद्विद्धि मनुजाधिप।।
दमः क्षमा धृतिस्तेजः संतोषः सत्यवादिता।
ह्रीरहिंसाऽव्यसनिता दाक्ष्यं चेति सुखावहाः।।
दुष्कृते सुकृते चापि न जन्तुर्नियतो भवेत्।
नित्यं मनः समाधाने प्रयतेत विचक्षणः।।
नायं परस्य सुकृतं दुष्कृतं चापि सेवते।
करोति यादृशं कर्म तादृशं प्रतिपद्यते।।
सुखदुःखे समाधाय पुमानन्येन गच्छति।
अन्येनैव जनः सर्वः संगतो यश्च पार्थिवः।।
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः।
यो ह्यसूयुस्तथा युक्तः सोऽवहासं नियच्छति।।
भीरू राजन्यो ब्राह्मणः सर्वभक्ष्यो
वैश्योऽनीहावान्हीनवर्णोऽलसश्च।
विद्वांश्राशीलो वृत्तहीनः कुलीनः
सत्याद्विभ्रष्टो ब्राह्मणस्त्री च तुष्टा।।
रागी युक्तः पचमानोऽऽत्महेतो
र्मूर्खो वक्ता नृपहीनं च राष्ट्रम्।
एते सर्वे शोच्यतां यान्ति राज
न्यश्रायुक्तः स्नेहहीनः प्रजासु।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
षण्णवत्यधिकद्विशततमोऽध्यायः।। 296।।