शांतिपर्व
अध्यायः २७३
युधिष्ठिर उवाच।
कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत्।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह।।
अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम्।
वधाय नीयमानेषु पितुरेवानुशासनात्।।
अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम्।
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति।।
द्युमत्सेन उवाच।
अथ चेदवधो धर्मोऽधर्मः को जातुचिद्भवेत्।
दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत्।।
ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे।
लोकयात्रा न चैव स्यादश्च चेद्वेत्थ शंस नः।।
सत्यवानुवाच।
सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः।
धर्मपाशनिबद्धानां नाल्पोऽप्यपचरिष्यति।।
यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः।
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत्।।
तत्त्वाभावेन यच्छास्त्रं तत्कुर्यान्नान्यथा वधः।
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि।
दस्यून्निहन्ति वै राजा भूयसो वाऽप्यनागसः।।
भार्या माता पिता पुत्रो हन्यन्ते पुरुषेण ते।
परेणापकृतो राजा तस्मात्सम्यक्प्रधारयेत्।।
असाधुश्चैव पुरुषो लभते शीतमेकदा।
साधोश्चापि ह्यसाधुभ्यः शोभना जायते प्रजाः।।
न मूलघातः कर्तव्यो नैष धर्मः सनातनः।
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते।।
उद्वे तेन बन्धेन विरूपकरणेन च।
वधदण्डेन क्लिश्या न पुरोहितससदि।।
यदा पुरोहितं वा ते पर्येयुः शरणैपिणः।
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः।।
तदा विसर्गमर्हाः स्युरितीदं धातृशासनम्।
विभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति शासनम्।।
गरीयांसो गरीयांसमपराधे पुनः पुनः।
तदा विसर्गमर्हन्ति न यथा प्रथमे तथा।।
द्युमत्सेन उवाच।
यत्रयत्रैव शक्येरन्संयन्तुं समये प्रजाः।
स तावान्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते।
अहन्यमानेषु पुनः सर्वमेव पराभवेत्।।
पूर्वे पूर्वतरे चैव सुशास्या ह्यभवञ्जनाः।
मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः।।
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम्।
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते।।
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः।।
नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः।
न गन्धर्वपितृणां च कः कस्येह न कश्चन।।
पक्वं श्मशानादादत्ते पिशाचांश्चापि दैवतम्।
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु।।
सत्यवानुवाच।
तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया।
कस्यचिद्भूतभव्यस्य लोभेनान्तं तथा कुरु।।
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः।
तेऽपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च।।
वित्रास्यमानाः सुकृतो न कामाद्धन्ति दुष्कृतीन्।
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः।।
श्रेयसः श्रेयसोऽप्येवं वृत्तं लोकोऽनुवर्तते।
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः।।
द्युमत्सेन उवाच।
आत्मानमसमाधाय समाधित्सति यः परान्।
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम्।।
यो राज्ञो दम्भमोहेन किंचित्कुर्यादसांप्रतम्।
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते।।
आत्मैवादौ नियन्तव्यो दुष्कृंतं संनियच्छता।
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान्।।
`यो राजा लोभमोहेन किंचित्कुर्यादसांप्रतम्।
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते।।'
यत्र वै पापकृन्नीचो न महद्दुःखमर्च्छति।
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम्।।
इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात्।
इति चैवानुशिष्टोऽस्मि पूर्वैस्तातपितामहैः।
आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च।।
एतत्प्रथमकल्पेन राजा कृतयुगे जयेत्।
पादोनेनापि धर्मेण गच्छेत्रेतायुगे तथा।
द्वापरे तु द्विपादेन पादेन त्ववरे युगे।।
तथा कलियुगे प्राप्ते राज्ञो दुश्चरितेन ह।
भवेत्कालविशेषेण कला धर्मस्य षोडशी।।
अथ प्रथमकल्पेन सत्यवन्संकरो भवेत्।
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत्।।
सत्याय हि यथा नेह जह्याद्धर्मफलं महत्।
भूतानामनुकम्पार्थं मनुः स्वायंभुवोऽब्रवीत्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
त्रिसप्तत्यधिकद्विशततमोऽध्यायः।। 273।।