शांतिपर्व

अध्यायः २५६

Santi Parva (Sanskrit) · Adhyaya 256
अक्षर का आकार

शुक उवाच।

यस्माद्धर्मात्परो धर्मो विद्यदे नेह कश्चन।
यो वि----- न्प्रब्रवीतु मे।।

व्यास उवाच।

धर्मं ति संप्रवक्ष्यामि पुराणमृषिसंस्तुतम्।
विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु।।

इन्द्रिया-----प्रमाथीनि बुद्ध्या संयम्य यत्नतः।
सर्वतो--------------------।।

मनसश्चेन्द्रियाणा चाप्यकाग्र्य परमं तप।
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्य।।

तानि सर्वाणि संधाय मनःषष्ठानि मेधया।
आत्मतृप्त इवासीत बहुचिन्त्यमचिन्तयन्।।

गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि।
तदा त्वमात्मनाऽऽत्मानं परं द्रक्ष्यसि शाश्वतम्।।

सर्वात्मानं महात्मानं विधूममिव पावकम्।
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः।।

यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः।
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्।।

एवमात्मा न जानीते क्व गभिष्ये कुतस्त्वहम्।
अन्यो ह्यत्रान्तरात्माऽस्ति यः सर्वमनुपश्यति।।

ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना।
दृष्ट्वा त्वमात्मनाऽऽत्मानं निरात्मा भव सर्ववित्।।

विमुक्तः सर्वपापेभ्यो विमुक्तत्वगिवोरगः।
परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः।।

सर्वतः प्रवहां घोरां नदीं लोकप्रवाहिनीम्।
पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम्।।

लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम्।
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम्।।

अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः।
प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम्।।

------------ तालद्‌स्तराम्।
आत्मकमा---------जिह्वावर्तां दुरासदाम्।।

यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः।
तां तीर्णः सर्वतोमुक्तो विधूतात्माऽऽत्मविच्छुचिः।।

उत्तमां बुद्धिमास्थाय ब्रह्मभूयं भविष्यसि।
संतीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विकल्मषः।।

भूमिष्ठानीव भूतानि पर्वतस्थो निशामय।
अक्रुध्यन्नप्रहृष्यंश्च अनृशंसमतिस्तथा।।

ततो द्रक्ष्यसि सर्वेषां भूतानां प्रभवाप्ययौ।
एनं वै सर्वभूतेभ्यो विशिष्टं मेनिरे बुधाः।
धर्मं धर्मभृतां श्रेष्ठा मुनयस्तत्त्वदर्शिनः।।

आत्मनो व्यापिनो ज्ञानमिदं पुत्रानुशासनम्।
प्रयताय प्रवक्तव्यं हितायानुगताय च।।

आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत्।
अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा।।

नैव स्त्री न पुमानेतन्नैव वेद नपुंसकम्।
अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्।।

नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुते।
स्वभावप्रतिपत्त्यर्थमेतद्धर्मं विधीयते।।

यथा मतानि सर्वाणि तथैतानि यथातथा।
कथितानि मया पुत्र भवन्ति न भवन्ति च।।

तत्प्रीतियुक्तेन गुणान्वितेन
पुत्रेण सत्पुत्र दमान्वितेन।
पृष्टो हि संप्रीतिमना यथार्थं
ब्रूयात्सुतस्येह यदुक्तमेतत्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
षट्‌पञ्चाशदधिकद्विशततमोऽध्यायः।। 256।।