शांतिपर्व

अध्यायः २१९

Santi Parva (Sanskrit) · Adhyaya 219
अक्षर का आकार

गुरुरुवाच।

न स वेद परं ब्रह्म यो न वेद चतुष्टयम्।
व्यक्ताव्यक्तं च यत्तत्त्वं संप्रोक्तं परमर्षिणा।।

व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम्।
निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत्।।

तत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम्।
निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम्।।

प्रवृत्तिलक्षणं धर्मं प्रजापतिरतथाब्रवीत्।
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः।।

तां गतिं परमामेति निवृत्तिपरमो मुनिः।
ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः।।

तदेवमेतौ विज्ञेयावव्यक्तपुरुषाबुभौ।
अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम्।।

तं विशेषमवेक्षेति विशेषेण विचक्षणः।
अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि।।

उभौ नित्यावनुचरौ महद्भ्यश्च महत्तरौ।
सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम्।।

प्रकृत्या सर्गधर्मिण्या तथा त्रिगुणसत्वया।
विपरीतमतो विद्यात्क्षेत्रज्ञस्य स्वलक्षणम्।।

प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम्।
`क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंवृतम्।।

अग्राह्यं येन जानन्ति तज्ज्ञानं दंशितश्च तत्।
तेनैव दंशितो नित्यं न गुणः परिभूयते।।

अग्राह्यौ पुरुषावेतावलिङ्गत्वादसङ्गिनौ।
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यथा।।

करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते।
कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषोप्यसाविति।।

`ममापि कायमिति च तदज्ञो नित्यसंवृतः।'
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः।
संवृतोऽयं तथा देही सत्त्वराजसतामसैः।।

`भेदवस्तु त्वभेदेन जानाति स यदा पुमान्।
तदा परं परात्माऽसौ भवत्येव निरञ्जनः।।

क्रियायोगे च भेदाख्ये बहु संक्षिप्यते क्वचित्।
वसुरुद्रगणाद्येषु स्वानुभोगेन भोगतः।।

एवमेष परः सत्त्वो नानारूपेण संस्थितः।
संक्षिप्तो दृश्यते पश्चादेकरूपेण विष्ठितः।।'

तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिरावृतम्।
तथासंज्ञो ह्ययं सम्यगन्तकाले न मुह्यति।
`वायुर्विधो यथा भानुर्विप्रकाशं गमिष्यति।।'

श्रियं दिव्यामभिप्रेप्सुर्वर्ष्मवान्मनसा शुचिः।
शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः।।

त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता।
सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि।।

`अन्यच्च धर्मसाम्यं यत्तपस्तत्कीर्त्यते पुनः।'
प्रकाशस्तपसो ज्ञानं लोके संशब्दितं तपः।।

रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम्।
`त्रितयं ह्येतदाख्यातं यद्यस्माद्भासितुं पुनः।।

स्वभासा भासयंश्चापि चन्द्रमा ह्यत्र वर्तते।
सूर्ययोगे तु यः सन्धिस्तपः सर्वं प्रदीप्यते।।'

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते।
वाङ्भनोनियमः सम्यङ्भानसं तप उच्यते।।

विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते।
आहारनियमेनास्य पाप्मा शाम्यति राजसः।।

वैमनस्यं च विषये यान्त्यस्य करणानि च।
तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम्।।

अन्तकाले बलोत्कर्षाच्छनैः कुर्यादनातुरः।
एवं युक्तेन मनसा ज्ञानं यदुपपद्यते।।

रजोवर्ज्यो ह्ययं देही देहवाञ्छब्दवांश्चरेत्।
कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः।।

आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते।
हेतुयुक्तः सदा सार्गो भूतानां प्रलयस्तथा।।

परप्रत्ययसर्गे तु नियमो नातिवर्तते।
एवं तत्प्रभवां प्रज्ञामासते ये विषर्यये।।

धृत्या देहान्धारयन्तो बुद्धिसंक्षिप्तचेतसः।
स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तदुपासते।।

यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुद्ध्यते।
देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः।।

युक्तो धारणया कश्चित्सतः केचिदुपासते।
अभ्यस्यन्ति परं देवं विद्यासंशब्दिताक्षरम्।।

अन्तकाले ह्युपासन्ते तपसा दग्धकिल्विषाः।
सर्व एते महात्मानो गच्छन्ति परमां गतिम्।।

सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा।
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम्।।

अन्तरिक्षादन्यतरं धारणासक्तमानसम्।
मर्त्यलोकाद्विमुच्यन्ते विद्यासंसक्तचेतसः।।

ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम्।
एवमेकायनं धर्ममाहुर्वेदविदो जनाः।।

यथाज्ञानमुपासन्तः सर्वे यान्ति परां गतिम्।
कषायवर्जितं----तेषामुत्पद्यतेऽमलम्।
यान्ति तेऽपि----- कान्विशुध्यन्ति यथाबलं।।

भगवन्तमजं दिव्य विष्णुमव्यक्तसंज्ञितम्।
भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः।।

ज्ञात्वाऽऽत्मस्थं------- न निवर्तन्ति तेऽव्ययाः।
प्राप्य तत्परमं स्थानमोदन्तेऽक्षरमव्ययम्।।

एतावदेतद्विज्ञानमेतदस्ति च नास्ति च।
तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते।।

विसतन्तुर्यथैवायमन्तस्थः सर्वतो बिसे।
तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा।।

सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः।
तद्वत्संसारसूत्रं हि तृष्णासूच्या निबद्ध्यते।।

`इतस्ततः समाहृत्य रूपं निर्वर्तयिष्यति।'
विकारं प्रकृतिं चैव पुरुषं च सनातनम्।।

यो यथावद्विजानाति स वितृष्णो विमुच्यते।
याति नित्यं स सद्भावमात्मनो वै महद्भुवम्।।

भीष्म उवाच।

प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम्।
भूतानामनुकम्पार्थं जगाद जगतो हितम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः।। 219।।