शांतिपर्व

अध्यायः २१

Santi Parva (Sanskrit) · Adhyaya 21
अक्षर का आकार

देवस्थान उवाच।

अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः।।

संतोषो वै स्वर्गसमः संतोषः परमं सुखम्।
तुष्टेर्न किंचित्परतः सा सम्यक्प्रतितिष्ठति।।

यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः।
तदाऽऽत्मज्योतिरचिरात्स्वात्मन्येव प्रसीदति।।

न विभेति यदा चायं यदा चास्मान्न बिभ्यति।
कामद्वेषौ च जयति तदाऽऽत्मानं च पश्यति।।

यदाऽसौ सर्वभूतानां न द्रुह्यति न काङ्क्षति।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा।।

एवं कौन्तेय भूतानि तंतं धर्मं तथातथा।
तदाऽऽत्मना प्रपश्यन्ति तस्माद्वुध्यस्व भारत।।

अन्ये साम प्रशंसन्ति व्यायाममपरे जनाः।
नैकं न चापरं केचिदुभयं च तथाऽपरे।।

यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः।
`नैकं न चापरं केचिदुभयं च तथाऽपरे।।'

दानमेके प्रशंसन्ति केचिच्चैव प्रतिग्रहम्।
केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते।।

राज्यमेके प्रशंसन्ति प्रजानां परिपालनम्।
हत्वा छित्त्वा च भित्त्वा च केचिदेकान्तशीलिनः।।

एतत्सर्वं समालोक्य बुधानामेव निश्चयः।
अद्रोहेणैव भूतानां यो धर्मः स सतां मतः।।

अद्रोहः सत्यवचनं संविभागो दया दमः।
प्रजनं स्वेषु दारेषु मार्दवं हीरचापलम्।।

एवं धर्मं प्रधानेष्टं मनुः स्वायंभुवोऽब्रवीत्।
तस्मादेतत्प्रयत्नेन कौन्तेय प्रतिपालय।।

यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः।
क्षत्रियो यज्ञशिष्टाशी राजा शास्त्रार्थतत्त्ववित्।।

असाधुनिग्रहरतः साधूनां प्रग्रहे रतः।
धर्मवर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मतः।।

पुत्रसंक्रामितश्रीश्च वने वन्येन वर्तयेत्।
विधानमाश्रमाणां वै कुर्यात्कर्माण्यतन्द्रितः।।

य एवं वर्तते राजन्स राजा धर्मनिश्चितः।
तस्यायं च परश्चैव लोकः स्यात्संफलोदयः।।

निर्वाणं हि सुदुष्प्राप्यं बहुविघ्नं च मे मतम्।।

एवं धर्ममनुक्रान्ताः सत्यदानतपः पराः।
आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः।।

प्रजानां पालने युक्ता धर्ममुत्तममास्थिताः।
गोब्राह्मणार्थे युध्यन्तः प्राप्ता गतिमनुत्तमाम्।।

एवं रुद्राः सवसवस्तथाऽऽदित्याः परंतप।
साध्या राजर्षिसङ्घाश्च धर्ममेतं समाश्रिताः।
अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकविंशोऽध्यायः।। 21।।