शांतिपर्व
अध्यायः १८७
भरद्वाज उवाच।
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम।
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर।।
भृगुरुवाच।
जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः।
वेदाध्ययनसंपन्नः षट्सु कर्मस्ववस्थितः।।
शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः।
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते।।
सत्यं दानमथाद्रोह आनृशंस्यं क्षमा धृणा।
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः।।
क्षत्रजं सेवते कर्म देवाध्ययनसंगतः।
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते।।
कृपिगोरक्षवाणिज्यं यो विशत्यनिशं शुचिः।
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः।।
सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः।
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः।।
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते।
न वै शूद्रो भवेच्छ्रद्रो ब्राह्मणो न च ब्राह्मणः।।
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः।
एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः।।
वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुच्छ्रितौ।।
नित्यं क्रोधाच्छ्रियं रक्षेत्तपो रक्षेच्च मत्सरात्।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः।।
यस्य सर्वे समारम्भा निराशाबन्धना द्विज।
त्यागे यस्य हुतं सर्वं स त्यागी च स बुद्धिमान्।।
अहिंस्रः सर्वभूतानां मैत्रायणगतिश्चरेत्।
परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः।
अचलं स्थानमातिष्ठेदिह चामुत्र चोभयोः।।
तपोनित्येन दान्तेन मुनिना संयतात्मना।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना।।
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्।।
अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः।
मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत्।।
निर्वेदादेव निर्वायान्न च किंचिद्विचिन्तयेत्।
सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति।।
शौचेन सततं युक्तः सदाचारसमन्वितः।
सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः।। 187।।