शांतिपर्व
अध्यायः १६९
भीष्म उवाच।
गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा।
कौतूहलान्वितो राजन्राजधर्माणमैक्षत।।
राजधर्मोवाच।
भोः काश्यपस्य पुत्रोऽहं माता दाक्षायणी मम।
सती त्वं च गुणोपेतः स्वागतं ते द्विजोत्तम।।
भीष्म उवाच।
तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा।
शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत्।।
भगीरथरथाक्रान्तदेशान्गङ्गानिषेवितान्।
ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत्।।
वह्निं चापि सुसंदीप्तं मीनांश्चापि सुपीवरान्।
स गौतमायातिथये न्यवेदयत काश्यपिः।।
भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः।
श्रमापनयनार्थं स पक्षाभ्यामभ्यवीजयत्।।
तनो विश्रान्तमासीनं गोत्रवृत्तमपृच्छत।
सोऽब्रवीद्गौतमोऽस्मीति ब्राह्मणोस्मीत्युदाहरत्।।
तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम्।
गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम्।।
अपोपविष्टं शयने गौतमं वाक्यवित्तमः।
पप्रच्छ काश्यपिर्वाग्मी किमागमनमित्युत।।
ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते।
समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत।।
तं काश्यपोऽब्रवीत्प्रीत्या नोत्कण्ठां कर्तुमर्हसि।
कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान्।।
चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा।
मित्रं विद्या हिरण्यं च बुद्धिश्चेति बुधेप्सिता।।
प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च महत्तरम्।
सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान्।।
ततः प्रभातसमये सुखं पृष्ट्वाऽब्रवीदिदम्।
गच्छ सौम्य पथाऽनेन कृतकृत्यो भविष्यसि।।
इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान्।
विरूपाक्ष इति ख्यातः सखा मम महाबलः।।
तं गच्छ द्विजमुख्य त्वं स मद्वाक्यप्रचोदितः।
कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः।।
इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः।
फलान्यमृतकल्पानि भक्षयानो यथेष्टतः।।
चन्दनागुरुमुख्यानि पत्रत्वचवनानि च।
तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ।।
ततो मनुव्रजं नाम नगरं शैलतोरणम्।
शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा।।
विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः।
प्रहितः सुहृदा राजन्प्रीयमाणः प्रियातिथिः।।
ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर।
गौतमो नगरद्वाराच्छीघ्रमानीयतामिति।।
तस्मात्पुरवरात्तूर्णं पुरुषाः श्वेतवेष्टनाः।
गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन्।।
ते तमूचुर्महाराज राजप्रेष्यास्तदा द्विजम्।
त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति।।
राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः।
स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम्।।
ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः।
गौतमः परमर्द्धि तां पश्यन्परमविस्मितः।।
तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत्।
दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि एकोनसप्तत्यधिकशततमोऽध्यायः।। 169।।