शांतिपर्व
अध्यायः १६
वैशंपायन उवाच।
अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः।
धैर्यमास्थाय तं ज्येष्ठं भ्राता भ्रातरमब्रवीत्।।
राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि।
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः।।
न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम्।
अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप।।
भवतः संप्रमोहेन सर्वं संशयितं कृतम्।
विक्लबत्वं च नः प्राप्तमबलत्वं तथैव च।।
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः।
मोहमापद्यसे दैन्याद्यथा कापुरुषस्तथा।।
आगतिश्च गतिश्चैव लोकस्य विदिता तव।
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो।।
एवं गते महाराज राज्यं प्रति जनाधिप।
हेतुमात्रं तु वक्ष्यामि तमिहैकमनाः श्रृणु।।
द्विविधो जायते व्याधिः शारीरो मानसस्तथा।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते।।
शारीराज्जायते व्याधिर्मानसो नात्र संशयः।
मानसाज्जायते व्याधिः शारीर इति निश्चयः।।
शारीरमानसे दुःखे योऽतीते त्वनुशोचति।
दुःखेन लभते दुःखं द्वावनर्थौ च विन्दति।।
शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः।
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम्।।
तेषामन्यतमोद्रेके विधानमुपदिश्यते।
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते।
`उभाभ्यां बाध्यते वायुर्विधानमिदमुच्यते।।'
सत्वं रजस्तय इति मानसाः स्युस्त्रयो गुणाः।
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम्।।
तेषामन्यतमोद्रेके विधानमुपदिश्यते।
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते।
`उभाभ्यां बाध्यते मोहो विधानमिदमुच्यते।।'
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति।
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति।।
स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च।
नादुःखी दुःखभागस्य नासुखी च सुखस्य च।
स्मर्तुमर्हसि कौरव्य दिष्टं हि बलवत्तरम्।।
अथवा ते स्वभावोऽयं येन पार्थिव तुष्यसे।
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्।
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि।।
प्रव्राजनं च नगरादजिनैश्च विवासनम्।
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि।।
जटासुरात्परिक्लेशं चित्रसेनेन चाहवम्।
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि।।
पुनरज्ञातचर्यायां कीचकेन पदा वधम्।
द्रौपद्या राजपुत्र्यांश्च कथं विस्मृतवानसि।।
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम्।
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्।।
यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्।।
तस्मिन्ननिर्जिते युद्धे प्राणान्यदि विमोक्ष्यसे।
अन्यं देहं समास्थाय ततस्तैरिह योत्स्यसे।।
`यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं तदल्पकम्।
बह्वपथ्यं बलवतो न किंचित्रायते बलम् ।।'
तस्मादद्यैव गन्तव्यं युध्यस्व भरतर्षभ।
परमव्यक्तरूपस्य व्यक्तं त्यक्त्वा स्वकर्मभिः।।
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि।
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि।।
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्।।
दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि।
द्रौपद्याः केशपक्षस्य दिष्ट्या ते पदवीं गताः।।
यजस्व वाजिमेधेन विधिवद्दक्षिणावता।
वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि षोडशोऽध्यायः।। 16।।