शांतिपर्व
अध्यायः १५८
युधिष्ठिर उवाच।
स्वाध्यायकृतयत्नस्य ब्राह्मणस्य विशेषतः।
धर्मकामस्य धर्मात्मन्किंनु श्रेय इहोच्यते।।
बहुधा दर्शने लोके श्रेयो यदिह मन्यसे।
अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह।।
महानयं धर्मपथो बहुशाखश्च भारत।
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम्।।
धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः।
यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः।।
भीष्म उवाच।
हन्त ते कथयिष्यामि येन श्रेयो ह्यवाप्स्यसि।
पीत्वाऽमृतमिव प्राज्ञो येन तृप्तो भविष्यसि।।
धर्मस्य विधयो नैके तेते प्रोक्ता महर्षिभिः।
स्वंस्वं विज्ञानमाश्रित्य दमस्तेषां परायणम्।।
दमं निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः।
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः।।
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते।
दमो दानं तथा यज्ञानधीतं चातिवर्तते।।
दमस्तेजो वर्धयति पवित्रं च दमः परम्।
विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत्।।
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम्।
दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम्।।
प्रेत्य चात्र मनुष्येन्द्र परमं विन्दते सुखम्।
दमेन हि सदा युक्तो महान्तं धर्ममश्नुते।।
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते।
सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति।।
अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते।
अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान्।।
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम्।
दमलिङ्गानि वक्ष्यामि येषां समुदयो दमः।।
क्षमा धृतिरार्हेसा च समता सत्यमार्जवम्।
इन्द्रियाभिजयो दाक्ष्यं मार्दवं ह्रीरचापलम्।।
अकार्पण्यमसंरम्भः संतोषः प्रियवादिता।
अविहसाऽनसूया चाप्येषां समुदयो दमः।।
गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम्।
जनवादमृषावादस्तुतिनिन्दाविसर्जनम्।।
कामं क्राधं च लोभं च दर्पं स्तम्भं विकत्थनम्।
रोषमीर्ष्यावमानं च नैव दान्तो निषेवते।।
अनिन्दितो ह्यकामात्मा नाल्पेष्वर्थ्यनसूयकः।
समुद्रकल्पः स नरो न कथंचन पूर्यते।।
अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम्।
पूर्वसंबन्धिसंयोगं नैतद्दान्तो निषेवते।।
सर्वा ग्राम्यास्तथाऽऽरण्या याश्च लोके प्रवृत्तयः।
निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते।।
मैत्रोऽथ शीलसंपन्नः प्रसन्नात्मात्मविच्च यः।
मुक्तस्य विविधैः सङ्गैस्तस्य प्रेत्य फलं महत्।।
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽऽत्मविद्वुधः।
प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते।।
कर्म यच्छुभमेवेह सद्भिराचरितं च यत्।
तदेव ज्ञानयुक्तस्य मुनेर्वर्त्म न हीयते।।
निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः।
कालाकाङ्गी चरन्नेवं ब्रह्मभूयाय कल्पते।।
अभयं यस्य भूतेभ्यो भूतानामभयं यतः।
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन।।
अवाचिनोति कर्माणि न च संप्रचिनोति ह।
समः सर्वेषु भूतेषु मैत्रायणगतिं चरेत्।।
शकुनीनामिवाकाशे मत्स्यानांमिव चोदके।
यथा गतिर्न दृश्येत तथा तस्य स संशयः।।
गृहानुत्सृज्य यो राज्मोक्षमेवाभिपद्यते।
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः।।
संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः।
संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह।।
कामे शुचिरनावृत्तः प्रसन्नात्माऽऽत्मविच्छुचिः।
प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते।।
यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम्।
गुहायां निहितं नित्यं तद्दमेनाभिगम्यते।।
ज्ञानारामस्य बुद्धस्य सर्वभूतानुरोधिनः।
नावृत्तिभयमस्तीह परलोकभयं कुतः।।
एक एव दमे दोषो द्वितीयो नोपपद्यते।
यदेनं दमसंयुक्तमशक्तं मन्यते जनः।।
एकोऽस्य सुमहाप्राज्ञ दोषः स्यात्सुमहान्गुणः।
क्षमया विपुला लोका दुर्लभा हि सहिष्णुता।।
दान्तस्य किमरण्येन तथाऽदान्तस्य भारत।
यत्रैव निवसेद्दान्तस्तदरण्यं स चाश्रमः।।
वैशंपायन उवाच।
एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः।
अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत।।
पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम्।
ततः प्रीतः स चोवाच तस्मै सर्वं कुरूद्वहः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः।। 158।।