शांतिपर्व
अध्यायः १४७
भीष्म उवाच।
ततो गतो शाकुनिके कपोती प्राह दुःखिता।
संस्मृत्य सा च भर्तारं रुदती शोककर्शिता।।
नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे।
सर्वाऽपि विधवा नारी बहुपुत्राऽपि शोचते।।
शोच्या भवति बन्धूनां पतिहीना तपस्विनी।
लालिताऽहं त्वया नित्यं बहुमानाच्च पूजिता।।
वचनैर्मधुरैः स्निग्धैरसंक्लिष्टमनोहरैः।
कन्दरेषु च शैलानां नदीनां निर्झरेषु च।।
द्रुमाग्रेषु च रम्येषु रमिताऽहं त्वया सह।
आकाशगमने चैव विहृताऽहं त्वया सुखम्।
रमामि स्म पुरा कान्त तन्मे नास्त्यद्य मे प्रिय।।
मितं ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य हि दातारं भर्तारं का न पूजयेत्।।
नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम्।
विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः।।
न कार्यमिह मे नाथ जीवितेन त्वया विना।
पतिहीना तु का नारी सती जीवितुमुत्सहेत्।।
एवं विलप्य बहुधा करुणं सा सुदुःखिता।
पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम्।।
ततश्चित्राङ्गदधरं भर्तारं साऽन्वपद्यत।
विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः।।
चित्रमाल्याम्बरधरं सर्वाभरणभूषितम्।।
विमानशतकोटीभिरावृतं पुण्यकर्मभिः।।
ततः स्वर्गं गतः पक्षी विमानवरमास्थितः।
कर्मणा पूजितस्तत्र रेमे स सह भार्यया।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः।। 147।।