शांतिपर्व
अध्यायः १२६
भीष्म उवाच।
प्रविश्य च महारण्यं तापसानामथाश्रमम्।
आससाद ततो राजा श्रान्तश्चोपाविशत्तदा।।
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा।
समेत्य ऋषयस्तस्मै पूजां चक्रुर्यथाविधि।।
स पूजामृषिभिर्दत्तां प्रतिगृह्य नराधिपः।
अपृच्छत्तापसान्सर्वांस्तपोवृद्धिमनुत्तमाम्।।
ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः।
ऋषयो राजशार्दूलमपृच्छंस्तत्प्रयोजनम्।।
केन भद्रमुखार्थेन तपोवनमुपागतः।
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर।।
एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानद।
कस्मिन्कुले तु जातस्त्वं किंनामा चासि ब्रूहि नः।।
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ।
आचख्यौ तद्यथावृत्तं परिचर्यां च भारत।।
हैहयानां कुले जातः सुमित्रोऽमित्रकर्शनः।
चरामि मृगयूथानि निघ्रन्बाणैः सहस्रशः।।
बलेन महता ब्रह्मन्सामात्यः सावरोधकः।
मृगस्तु विद्धो बाणेन मया सरति शल्यवान्।।
तं द्रवन्तमनुप्राप्तो वनमेतद्यदृच्छया।
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः।।
किंनु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः।
भवतामाश्रमं प्राप्तो हताशो भ्रष्टलक्षणः।।
न राजलक्षणत्यागः पुनरस्य तपोधनाः।
दुःखं करोति मे तीव्रं यथाऽऽशा विहता मम।।
हिमवान्वा महाशैलः समुद्रो वा महोदधिः।
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा।।
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः।
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः।।
भवन्तः सुमहाभागास्तस्मात्पृच्छामि संशयम्।
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा।।
किंनु ज्यायस्तरं लोके महत्त्वे प्रतिभाति वः।
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम्।।
यदि गुह्यं न वो नित्यं तदा प्रब्रूत मा चिरम्।
न हि गुह्यतमं श्रोतुमिच्छामि द्विजपुङ्गवाः।।
भवत्तपोविघातो वा येन स्याद्विरमे ततः।
यदि वाऽस्ति कथायोगो योऽयं प्रश्नो मयेरितः।।
एतत्कारणसामर्थ्यं श्रोतुमिच्छामि तत्त्वतः।
भवन्तोऽपि तपोनित्या ब्रूयुरेतत्समाहिताः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि षङ्विंशत्यधिकशततमोऽध्यायः।। 126।।