शल्यपर्व
अध्यायः ८
सञ्जय उवाच।
ततः प्रववृते युद्धं कुरूणां भयवर्धनम्।
सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम्।।
नरा रथा गजौघाश्च वाजिनश्च सहस्रशः।
वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम्।।
गजानां भीमरूपाणां द्रवतां निःस्वनो महान्।
अश्रूयत यथा काले जलदानां नभस्तले।।
नागैरभ्याहताः केचित्सरथा रथिनोऽपतन्।
व्यद्रवन्त रणे भीता द्राव्यमाणा मदोत्कटैः।।
हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः।
शरैः सम्प्रेषयामासुः परलोकाय भारत।।
सादिनः शिक्षिता राजन्परिवार्य महारथान्।
विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा।।
धन्विनः पुरुषाः केचित्परिवार्य महारथान्।
एकं बहव आसाद्य प्रैषयन्यमसादनम्।।
नागान्रथवरांश्चान्ये परिवार्य महारथाः।
सोत्तरा युधि निर्जघ्नुर्द्रवमाणं महारथम्।।
तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून्।
नागा जघ्नुर्महाराज परिवार्य समन्ततः।।
नागा नागमभिद्रुत्य रथी च रथिनं रणे।
शक्तितोमरनाराचैर्निजघ्नुस्तत्र भारत।।
पादातानवमृद्गन्तो रथवारणवाजिनः।
रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम्।।
हयाश्च पर्यधावन्त चामरैरुपशोभिताः।
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम्।।
तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशाम्पते।
अशोभत यथा नारी करजैः क्षतविक्षता।।
वाजिनां खुरशब्देन रथनेमिस्वनेन च।
पत्तीनां चापि शब्देन नागानां बृंहितेन च।।
वादित्राणां च घोषेण शङ्खानां निनदेन च।
अभवन्नादिता भूमिर्निर्घातैरिव भारत।।
धनुषां कूजमानानां शस्त्रौघानां च पात्यताम्।
कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन।।
बहवो बाहवश्छिन्ना नागराजकरोपमाः।
उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम्।।
शिरसां च महाराज पततां धरणीतले।
च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः।।
शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा।
तपनीयनिभैः काले नलिनैरिव भारत।।
उद्वृत्तनयनैस्तैस्तु गतसत्वैः सुविक्षतैः।
व्यभ्राजत मही राजन्पुण्डरीकैरिवावृता।।
बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महारधनैः।
पतितैर्भाति राजेन्द्र महाशक्रध्वजैरिव।।
ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे।
हस्तिहस्तोपमैर्जज्ञे संवृतं तद्रणाङ्कणम्।।
कबन्धंशतसङ्कीर्णं छत्रचामरसङ्कुलम्।
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा।।
तत्र योधा महाराज विचरन्तो ह्यभीतवत्।
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः।।
मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः।
पतन्तस्तत्र तवैव छिन्नाभ्रासदृशा रणे।।
गजानीकं महाराज वध्यमानं महात्मभिः।
व्यदीर्यत दिशः सर्वा वातनुन्ना धना इव।।
ते गजा धनसङ्काशाः पेतुरुर्व्यां समन्ततः।
वज्रनुन्ना इव बभुः पर्वता युगसङ्क्षये।।
हयानां सादिभिः सार्धं पतितानां महीतले।
राशयः स्म प्रदृश्यन्ते गिरिमात्रांस्ततस्ततः।।
सञ्जज्ञे रणभूमौ तु परलोकवहा नदी।
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा।।
भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला।
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा।।
कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा।
चक्रचक्रावलीजुष्टा त्रिवेणूरगसंवृता।।
शूराणां हर्षजननी भीरूणां भयवर्धनी।
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्गमे।।
तां नदीं परलोकाय वहन्तीमतिभैरवाम्।
तेरुर्वाहननौभिस्ते शूराः परिघबाहवः।।
वर्तमाने तदा युद्धे निर्मर्यादे विशाम्पते।
चतुरङ्गक्षये घोरे युद्धे देवासुरोपमे।।
व्याक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप।
क्रोशद्भिर्दयितैरन्ये भयार्ता न निवर्तिरे।।
निर्मर्यादे तथा युद्धे वर्तमाने भयानके।
अर्जुनो भीमसेनश्च मोहयाञ्चक्रतुः परान्।।
सा वध्यमाना महती सेना तव नराधिप।
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव।।
मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ।
दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः।।
श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ।
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ।।
तत्राश्चर्यमपश्याम घोररूपं महद्भयम्।
शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः।।
माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ।
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव।।
ततोऽभ्यावर्तत बलं तावकं भरतर्षभ।
शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः।।
वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव।
भेजे दश दिशो राजन्प्रणुन्ना शरवृष्टिभिः।।
हाहाकारो महाञ्जज्ञे योधानां तत्र भारत।
तिष्ठतिष्ठेति चाप्यासीद्द्रावितानां महात्मनाम्।।
क्षत्रियाणां तथाऽन्योन्यं संयुगे जयमिच्छताम्।
प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः।।
त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान्।
मातुलान्भागिनेयांश्च वयस्यानपि भारत।।
हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः।
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ।।
।। इति श्रीमन्महाभारते शल्यपर्वणि
शल्यवधपर्वणि अष्टादशदिवसयुद्धे अष्टमोऽध्यायः।। 8 ।।