शल्यपर्व
अध्यायः ६
सञ्जय उवाच।
एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान्।
दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह।।
दुर्योधन महाबाहो शृणु वाक्यविदां वर।
यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनांवरौ।
न मे तुल्यावुभावेतौ बाहुवीर्ये कथञ्चन।।
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम्।
योधयेयं रणमुखे सङ्क्रुद्धः किमु पाण्डवान्।।
विजेष्यामि रणे पार्थान्सोमकांश्च समागतान्।
अहं सेनाप्रमेता ते भविष्यामि न संशयः।।
तं च व्यूहं विधास्यामि न क (त) रिष्यन्ति यं परे।
इति सत्यं ब्रवीम्येष दुर्योधन न संशयः।।
`अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः।
निहनिष्यामि वा राजन्स्वर्गं यास्यामि वा हतः।।
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत्।।
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः।
पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः।
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः।।
विक्रमं मम पश्यन्तु धनुषश्च महद्बलम्।
लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि।।
अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः।
यादृशं मे बलं बाह्वोः सम्पदस्त्रेषु या च मे।।
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः।
प्रतीकारपरा भूत्वा चेष्टन्ते विविधाः क्रियाः।।
अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः।।
द्रोणभीष्मावति विमो सूतपुत्रं च संयुगे।
विचरिष्ये रणमुखे प्रियार्थं तव कौरव।।
सञ्जय उवाच।
एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा।
अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम।
विधिना शास्त्रदृष्टेन क्लिष्टरूपो विशाम्पते।।
अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत्।
तव सैन्येऽभ्यवाद्यन्त वादित्राणि च भारत।।
हृष्टाश्चासंस्तथा योधा मद्रकाश्च महारथाः।
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम्।।
जय राजंश्चिरं जीव जहि शत्रून्समागतान्।
तव बाहुबलं प्राप्य धार्तराष्ट्रो महाबलः।
निखिलां पृथिवीं सर्वां प्रशास्तु निहतद्विषम्।।
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान्।
मर्त्यधर्माण इह तु किमु सृञ्जयसोमकान्।।
एवं सम्पूज्यमानस्तु मद्राणामधिपो बली।
हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः।।
सञ्जय उवाच।
अभिषिक्ते तथा शल्ये तव सैन्येषु मानद।
न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत।।
हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः।
मेनिरे निहतान्पार्थान्मद्रराजवशङ्गतान्।।
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ।
तां रात्रिं सुखिता सुप्ता हर्षचित्ता च साभवत्।।
सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः।
वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य पश्यतः।।
मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माघव।
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः।।
एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम्।
भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम्।।
तमब्रवीन्महाराज वासुदेवो जनाधिपम्।
आर्तायनिमहं जाने यथातत्त्वेन भारत।।
वीर्यवांश्च महातेजा महात्मा च विशेषतः।
कृती च चित्रयोधी च संयुक्तो लाघवेन च।।
यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे।
तादृशृस्तद्विशिष्टो वा मद्रराजो मतो मम।।
युध्यमानस्य तस्याहं चिन्तयानश्च भारत।
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप।।
शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत।
धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे।।
मद्रराजो महाराजः सिंहद्विरदविक्रमः।
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव।।
तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहने।
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम्।।
स त्वमेको हि लोकेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत्।
मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन।।
अहन्यहनि युध्यन्तं क्षोभयन्तं बलं तव।
तस्माज्जहि रणे शल्यं मघवानिव शम्बरम्।।
सौतेः पश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः।
तवैव हि जयो नूनं हते मद्रेश्वरे युधि।
तस्मिन्हते हतं सर्वं धार्तराष्ट्रबलं महत्।।
एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम्।
प्रत्युद्याहि रणे पार्थ मद्रराजं महारथम्।।
जहि चैनं महाबाहो वासवो नमुचिं यथा।।
न चैवात्र दया कार्या मातुलोऽयं ममेति वै।
क्षत्रवर्म पुरस्कृत्य जहि मद्रजनेश्वरम्।।
द्रोणभीष्मार्णवं तीर्त्वा कर्णपातालसम्भवम्।
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम्।
यच्च ते तपसो वीर्यं यच्च क्षात्रं बलं तव।
तद्दर्शय रणे सर्वं जहि चैनं महारथम्।।
सञ्जय उवाच।
एतावदुक्त्वा वचनं केशवः परवीरहा।
जगाम शिबिरं सायं पूज्यमानोऽथ पाण्डवैः।।
केशवे तु तदा याते धर्मपुत्रो युधिष्ठिरः।
विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान्।
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः।।
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा।
कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा।।
गतज्वरं महेष्वासं तीर्णपारं महारथम्।
बभूव पाण्डवेयानां सैन्यं च मुदितं निशि।
सूतपुत्रस्य निधनाज्जयं लब्ध्वा च मारिष।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
शल्यवधपर्वणि षष्ठोऽध्यायः।। 6 ।।