शल्यपर्व

अध्यायः ५२

Salya Parva (Sanskrit) · Adhyaya 52
अक्षर का आकार

वैशम्पायन उवाच।

यत्रेजिवानुडुपती राजसूयेन भारत।
यस्मिन्वृत्ते महानासीत्सङ्ग्रामस्तारकामयः।।

तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान्।
सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह।।

यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान्।
वेदानध्यापयामास पुरा सारस्वतो मुनिः।।

जनमेजय उवाच।

कथं द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान्।
वेदानध्यापयामास पुरा सारस्वतो मुनिः।।

वैशम्पायन उवाच।

आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः।
दधीचिरिति विख्यातो ब्रह्मचारी जितेन्द्रियः।।

तस्यातितपसः शक्रो बिभेति सततं विभो।
न स लोभयितुं शक्यः फलैर्बहुविधैरपि।।

प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः।
दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम्।।

तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः।
समीपतो महाराज सोपातिष्ठत भामिनी।।

तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः।
रेतः स्कन्नं सरस्वत्यां तस्मा जग्राह निम्नगा।।

कुक्षौ चाप्यदधद्वृष्टा तद्रेतः पुरुषर्षभ।
सा दधार च तं गर्भं पुत्रहेतोर्महात्मनः।।थ

सुषुवे चापि समये पुत्रं सारस्वतं वरम्।
जगाम पुत्रमादाय तमृषिं प्रति च प्रभो।।

ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम्।
ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम्।
ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया।।

दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम्।
तत्कुक्षिणाऽहं ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम्।।

न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात्।
प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम्।।

इत्युक्तः प्रतिजग्राह प्रीतिं चावाप पुष्कलाम्।
पितृवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः।।

परिष्वज्य चिरं कालं तदा भरतसत्तम।
सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः।।

विश्वेदेवाः सपितरो गन्धर्वाप्सरसां गणाः।
तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा।।

इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम्।
प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव।।

दधीचिरुवाच।

प्रस्रुताऽसि महाभागे सरसो ब्रह्मणः पुरा।
जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः।।

मम प्रियकरी चापि सततं प्रियदर्शने।
तस्मात्सारस्वतं पुत्रमदधा वरवर्णिनि।।

तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः।
सारस्वत इति ख्यातो भविष्यति महातपाः।।

एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान्।
सारस्वतो महाभागे वेदानध्यापयिष्यति।।

पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे।
भविष्यसि महाभागे मत्प्रसादात्सरस्वति।।

एवं स्त संस्तुता तेन वरं लब्ध्वा महानदी।
पुत्रमादाय मुदिता जगाम भरतर्षभ।।

एतस्मिन्नेव काले तु विरोधे देवदानवैः।
शक्रः प्रहरणान्विषी लोकांस्त्रीन्विचचार ह।।

न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा।
यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम्।।

ततोऽब्रवीत्सुराञ्शक्रो न मे शक्याः सुरारयः।
ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः।।

तस्माद्यत्नादृषिश्रेष्ठो याच्यतां कार्यसिद्धये।
दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून्।।

स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा।
साहाय्यं नः कुरुष्वेति चकारैवाविचारयन्।।

स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा।
तस्यास्थिभिरथो शक्रः सम्प्रहृष्टमनास्तदा।।

कारयामास दिव्यानि नानाप्रहरणान्युत।
गदा वज्राणि चक्राणि गुरून्दण्डांश्च पुष्कलान्।।

स हि तीव्रेण तपसा सम्भृतः परमर्षिणा।
प्रजापतिसुतेनाथ भृगुणा लोकभावनः।।

अतिकायः स तेजस्वी लोकसारो विनिर्मितः।
जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः।।

नित्यमुद्विजते चास्य तेजसः पाकशासनः।।

तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत।
भृशं क्रोधविसृष्टेन ब्रह्मतेजोद्भवेन च।
दैत्यदानववीराणां जघान नवतीर्नव।।

अथ काले व्यतिक्रान्ते महत्यतिभयङ्करी।
अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी।।

तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः।
वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम्।।

दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा।
गमनाय मतिं चक्रे तं प्रोवाच सरस्वती।।

न गन्तव्यमितः पुत्र तवाहारमहं सदा।
दास्यामि मत्स्यप्रवरानुष्यतामिह भारत।।

इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा।
आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन्।।

अथ तस्यामनावृष्ट्यामतीतायां महर्षयः।
अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात्।।

तेषां क्षुधापरीतानां नष्टा देवा विधावताम्।
सर्वेषामेव राजेन्द्र न किचित्प्रतिभाति ह।।

अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान्।
कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम्।।

स गत्वाऽचष्ट तेभ्यश्च सारस्वतमृषिं प्रभुम्।
स्वाध्यायममरप्रख्यं कुर्वाणं विजने वने।।

ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः।
सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः।।

अस्मानध्यापयस्वेति तानुवाच ततो मुनिः।
शिष्यत्वमुपागच्छध्वं विधिना च ममेत्युत।।

तत्राब्रुवन्मुनिगणा बालस्त्वमसि पुत्रक।
स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन्।।

यो ह्यधर्मेण वै ब्रूयाद्गृह्णीयाद्योऽप्यधर्मतः।
म्रियेतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ।।

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्।।

एतच्छ्रुत्वा वचस्तस्य मनुयस्ते विधानतः।
तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे।।

षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे।
सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात्।।

मुष्टिं मुष्टिं ततः सर्वे दर्भाणां ते ह्युपाहरन्।
तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः।।

तत्रापि दत्त्वा वसु रौहिणेयो
महाबलः केशवपूर्वजोऽथ
जगाम तीर्थं मुदितः क्रमेण
तं वृद्धकन्याश्रममे व वीरः।।

।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि द्विपञ्चाशत्तमोऽध्यायः।। 52 ।।