शल्यपर्व
अध्यायः ५०
वैशम्पायन उवाच।
इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली।
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि।।
तत्र ह्यमरराजो वै ईजे क्रतुशतेन ह।
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम्।।
अनर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान्।
आजहर क्रतूंस्तत्र यथोक्तं वेदपारगैः।।
तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः।
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः।।
तस्य नाम्ना तु तत्तीर्थं शिवं पुण्यं सनातनम्।
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम्।।
उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः।
ब्राह्मणान्पूजयित्वा च पानाच्छादुनभोजनैः।।
शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह।
यत्र रामो महाभागो भार्गवः सुमहातपाः।।
असकृत्पृथिवीं कृत्वा हतक्षत्रियपुङ्गवाम्।
उपाध्यायं पुरस्कृत्य काश्यपं मुनिसत्तमम्।।
अयजद्वाजपेयेन सोऽश्वमेधशतेन च।
प्रददौ दक्षिणार्थं च पृथिवीं सागराम्बराम्।।
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय।
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान्।।
पुण्यतीर्थे शुभे देशे वसु दत्त्वा हलायुधः।
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत्।
यत्रानयामास तदा राजसूयमपाम्पतिः।।
दितेः सुतान्महाभागो वरुणो वै सितप्रभः।
यत्र निर्जित्य सङ्ग्रामे मानुषान्दानवांस्तथा।
गन्धर्वान्राक्षसांश्चैव वरुणः परवीरहा।।
तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत।
देवानां दानवानां च त्रैलोक्यस्य भयावहः।।
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय।
जायते सुमहाघोरः संक्षयः क्षत्रियान्प्रति।।
हलायुधस्तदा रामस्तस्मिंस्तीर्थवरे शुभे।
तत्रस्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः।।
वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः।
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः।।
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम।
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत।।
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः।
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह।।
द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः।
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते।।
एते चान्ये च बहवो योगसिद्धाः सहस्रशः।
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप।।
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ।
आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे।।
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत।
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः।।
असितो देवलश्चैव तस्मिन्नेव महातपाः।
परमं योगमास्थाय ऋषिर्योगमवाप्तवान्।।
।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि पञ्चाशोऽध्यायः।। 50 ।।