शल्यपर्व

अध्यायः ४०

Salya Parva (Sanskrit) · Adhyaya 40
अक्षर का आकार

वैशम्पायन उवाच।

उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः।
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः।।

दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च।
पूजितो मुनिसङ्खैश्च प्रातरुत्थाय लाङ्गली।।

अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत।
प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः।।

ततस्त्वौशनसं तीर्थमाजगाम हलायुधः।
कपालमोचनं नाम यत्र मुक्तो महामुनिः।।

महता शिरसा राजन्ग्रस्तजङ्घो महोदरः।
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा।।

तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना।
यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः।
यत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम्।।

तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम्।
विधिवद्वै ददौ वित्तं ब्राह्मणानां महात्मनाम्।।

जनमेजय उवाच।

कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः।
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना।।

वैशम्पायन उवाच।

पुरा वै दण्डकारण्ये राघवेण महात्मना।
वसता राजशार्दूल राक्षसाञ्शमयिष्यता।।

जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः।
क्षुरेण शितधारेण तत्पणात महावने।।

महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया।
वने विचरतो राजन्नस्थि भित्त्वाऽस्फुरत्तदा।।

स तेन लग्नेन तदा द्विजातिर्न शशाक ह।
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च।।

स पूतिना विस्रवता वेदनार्तो महामुनिः।
जगाम् सर्वतीर्थानि पृथिव्यां चेति नः श्रुतम्।।

स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः।
कथयामास तत्सर्वमृषीणां भावितात्मनाम्।।

आप्लुत्य सर्वतीर्थेषु न च मोक्षमवाप्तवान्।
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत्।।

सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा।
सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम्।।

स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः।।

तत औशनसे तीर्थे तस्योपस्पृशतस्तदा।
xxx च्छरश्चरणं मुक्त्वा पपातान्तर्जले तदा।।

विमुक्तस्तेन शिरसा परं सुखमवाप ह।
स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो।।

ततः स विरुजो राजन्पूतात्मा वीतकल्मषः।
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः।।

सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः।
कथयामास तत्सर्वमृषीणां भावितात्मनाम्।।

ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद।
कपालमोचनमिति नाम चक्रुः समागताः।।

स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः।
पीत्वा पयःसुविपुलं सिद्धिमायात्तदा मुनिः।।

तत्र दत्त्वा बहून्देयान्विप्रान्सम्पूज्य माधवः।
जगाम तत्र राजेन्द्र उशङ्गोराश्रमं तदा।।

यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत।
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः।।

सर्वकामसमृद्धं च तदाश्रमपदं महत्।
मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो।।

ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः।
जगाम तत्र राजेन्द्र उशङ्गुस्तनुमत्यजत्।।

उशङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत।
देहन्यासे कृतमना विचिन्त्य बहुधा तदा।।

ततः सर्वानुपादाय तनयान्वै महातपाः।
उशङ्गुरब्रवीत्तत्र नयध्वं मां पृथूदकम्।।

विज्ञायातीतवयसमुशङ्गुं ते तपोधनाः।
तं च तीर्थमपानिन्युः सरस्वत्यास्तपोधनम्।।

स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्।
पुण्यां तीर्थशतोपेतां विप्रसङ्घैर्निषेविताम्।।

स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः।
ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः।
सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः।।

सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्।
पृथूदके जप्यपरो नैनं श्वो मरणं तपेत्।।

`इत्युक्त्वा स्वां तनुं त्यक्त्वा प्रपेदे वैष्णवं पदम्'।
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः।
दत्त्वा चैव बूहून्देयान्विप्राणां विप्रवत्सलः।।

ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः।।

यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः।
तपसा महता राजन्प्राप्तवानृषिसत्तमः।।

सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः।
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रस्तथा मुनिः।।

महातपस्वीं भगवानुग्रतेजा महातपाः।
तत्राजगाम बलवान्बलभद्रः प्रतापवान्।।

।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि चत्वारिंशोऽध्यायः।। 40 ।।