शल्यपर्व

अध्यायः ४

Salya Parva (Sanskrit) · Adhyaya 4
अक्षर का आकार

सञ्जय उवाच।

एवमुक्तस्ततो राजा गौतमेन तपस्विना।
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशाम्पते।।

ततो मुहूर्तं स ध्यात्वा तव पुत्रो महामनाः।
कृपं शारद्वतं वाक्यमित्युवाच परन्तपः।।

यत्किञ्चित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम्।
कृतं च भवता सर्वं प्राणान्सन्त्यज्य युध्यता।।

गाहमानमनीकानि युध्यमानं महारथैः।
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान्।।

सुहृदा यदिदं वाक्यं भवता श्रावितो ह्यहम्।
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम्।।

हेतुकारणसंयुक्तं हितं वचनमुत्तमम्।
उच्यमानं महाबाहो न मे विप्राग्र्य रोचने।।

राज्याद्विनिकृतोऽस्माभिःकथं सोस्मासु विश्वसेत्।।

अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः।
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु।।

तथा दूत्येन सम्प्राप्तः कृष्णः पार्थहिते रतः।
प्रलब्धश्च हृषीकेशस्तच्च कर्माविचारितम्।
स च मे वचनं ब्रह्मन्कथमेवाभिमन्यते।।

विललाप च यत्कृष्णा सभामध्ये समेयुषी।
न तन्मर्षयते कृष्णो न राज्यहरणं तथा।।

एकप्राणावुभौ कृष्णावन्योन्यमभिसंश्रितौ।
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो।।

स्वस्रीयं निहतं दृष्ट्वा दुःखं स्वपिति केशवः।
कृतागसो व यं तस्य हितं मे स कथं चरेत्।।

अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः।
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः।।

मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः।
प्रतिज्ञातं च तेनोग्रं भज्येतापि न सन्नमेत्।।

उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ।
कृतवैरावुभौ वीरौ यमावपि यमोपमौ।।

धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह।
तौ कथं मद्विते यत्नं कुर्यातां द्विजसत्तम।।

दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला।
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः।।

तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः।
न निवारयितुं शक्याः सङ्ग्रामात्ते परन्तपाः।।

यदा च द्रौपदी क्लिष्टा मद्विनाशाय दुःखिता।
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये।
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातनम्।।

निक्षिप्य मानं दर्पं च वासुदेवसहोदरा।
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा।।

इति सर्वं समुन्नद्धं न निर्वाति कथञ्चन।
अभिमन्योर्विनाशेन स सन्धेयः कथं मया।।

कथं च राजा भुक्त्वेमां पृथिवीं सागराम्बराम्।
पाण्डवानां प्रसादेन भोक्ष्ये राज्यमहं कथम्।।

उपर्युपरि राज्ञां वै ज्वलित्वा भास्करो यथा।
युधिष्ठिरं कथं पञ्चादनुयास्यामि दासवत्।।

कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान्।
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम्।।

नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया।।
न तु सन्धिमहं मन्ये प्राप्तकालं कथञ्चन।

सुनीतमनुपश्यामि सुयुद्धेन परन्तप।।

नायं क्लीबायितुं कालः संयोद्वुं काल एव नः।।

इष्टं मे बहुभिर्जज्ञैर्दत्ता विप्रेषु दक्षिणाः।
प्राप्ताः कामाः श्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम्।।

भृत्या मे सुभृतास्तात दीनश्चाभ्युद्वृतो जनः।
नोत्साहेऽद्य द्विजश्रेष्ठ पाण्डवान्वक्तुमीदृशम्।।

जितानि परराष्ट्राणि स्वराष्ट्रमनुपालितम्।
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया।।

पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः।
न ध्रुवं सुखमस्तीह कुतो राष्ट्रं कुतो यशः।
इह कीर्तिर्विचेतव्या सा च युद्वेन नान्यथा।।

वृथा च यत्क्षत्रियस्य निधनं तद्विगर्हितम्।
अधर्मः सुमहानेष यच्छय्यामरणं गृहे।।

अरण्ये यो विमुच्येत सङ्ग्रामे वा तनुं नृपः।
क्रतूनाहृत्य महतो महिमानं स गच्छति।।

कृपणं विलपन्नार्तो जरयाऽभिपरिप्लुतः।
म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः।।

त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम्।
अपीदानीं सुयुद्धेन गच्छेयं यत्सलोकताम्।।

शूराणामार्यवृत्तानां सङ्क्रामेष्वनिवर्तिनाम्।
धीमतां सत्यसन्धानां सर्वेषां क्रतुयाजिनाम्।
शस्त्रावभृथपूतानां ध्रुवो वासस्त्रिविष्टपे।।

मुदा नूनं प्रपश्यन्ति युद्वे ह्यप्सरसां गणाः।।

पश्यन्ति नूनं पितरः पूजितान्सुरसंसदि।
अप्सरोभिः परिवृतान्मोदमानांस्त्रिविष्टपे।।

पन्थानममरैर्यान्तं शूरैश्चैवानिवर्तिभिः।
अपि तत्सङ्गतं मार्गं वयमध्यारुहेमहि।।

पितामहेन वृद्वेन तथाऽचार्येण धीमता।
जयद्रथेन कर्णेन तथा दुःशासनेन च।।

घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः।
शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः।।

उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः।
त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठितः।।

तैः स्वयं रचितो मार्गो दुर्गमो हि पुनर्भवेत्।
सम्पतद्भिर्महावेगैरितो यास्यामि सद्गतिम्।।

ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन्।
ऋणं तत्प्रतियुञ्जानो न राज्ये मन आदधे।।

पातयित्वा वयस्यांश्च भ्रातृनथ पितामहान्।
जीवितं यदि रक्षेयं लोको मां गर्हयेद्व्रुवम्।।

कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः।
सखिभिश्च विशेषेण प्रणिपत्य च पाण्डवम्।।

सोऽहमेतादृशं कृत्वा जगतोऽस्य पराभवम्।
सुयुद्धेन हतः स्वर्गं प्राप्सामि न तदन्यथा।।

सञ्जय उवाच।

एं दुर्योधनेनोक्ते सर्वे सम्पूज्य तद्वचः।
साधुसाध्विति राजानं क्षत्रियाः सम्बभाषिरे।।

पराजयमशोचन्तः कृतचित्ताश्च विक्रमे।
सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन्।।

ततो वाहान्समाश्वास्य सर्वे युद्धाभिनन्दिनः।
ऊने द्वियोजने गत्वा प्रत्यतिष्ठन्त कौरवाः।।

आकाशे विद्रुमे पुण्ये प्रस्थे हिमवतः शुभे।
अरुणां सरस्वतीं प्राप्य पपुः सस्नुश्च तेजलम्।।

तव पुत्रकृतोत्साहाः पर्यवर्तन्त ते ततः।
पर्यवस्थाप्य चात्मानमन्योन्येन पुनस्तदा।
सर्वे राजन्न्यवर्तन्त क्षत्रियाः कालचोदिताः।।

।। इति श्रीमन्महाभारते शल्यपर्वणि
शल्यवधपर्वणि चतुर्थोऽध्यायः।। 4 ।।