शल्यपर्व

अध्यायः ३६

Salya Parva (Sanskrit) · Adhyaya 36
अक्षर का आकार

जनमेजय उवाच।

किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत।
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत।।

कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी।
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने।।

वैशम्पायन उवाच।

दक्षस्य तनयास्तात प्रादुरासन्विशाम्पते।
स सप्तविंशतिं कन्या दक्ष सोमाय वै ददौ।।

नक्षत्रयोगनिरताः सङ्ख्यानार्थं च ताभवन्।
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः।।

तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमाऽभवन्।
अत्यरिच्यत तासां तु रोहिणी रुपसम्पदा।।

ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः।
साऽस्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा।।

ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः।
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः।।

सोमो वसति नास्मासु रोहिणीं भजते सदा।
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर।
वत्स्यामो नियताहारास्तपश्चरणतत्पराः।।

श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्।
समं वर्तस्व सर्वासु मा त्वाऽधर्मो महान्स्पृशेत्।।

तास्तु सर्वाऽब्रवीद्दक्षो गच्छध्वं शशिनोन्तिकम्।
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्।।

विसृष्टास्तास्तथा जग्मुः शीताशोर्भवनं शुभाः।
तथाऽपि सोमो भगवान्पुनरेव महीपते।
रोहिण्या सार्धमवसत्प्रीयमाणो मुहुर्मुहुः।।

ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन्।।

सोमो वसति नास्मासु नाकरोद्वचनं तव।
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके।।

तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत्।
समं वर्तस्व सर्वासु मा त्वां शप्स्ये विरोचन।।

अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी।
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः।।

गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा।
सोमो वसति नास्मासु तस्मान्नः शरणं भव।।

रोहिण्यामेव भगवान्सदा वसति चन्द्रमाः।
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति।।

तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत्।
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते।।

ससर्ज रोषात्सोमाय स चोडुपतिमाविशत्।
स यक्ष्मणाऽभिभूतात्माक्षीयताहरहः शशी।।

यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः।
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः।।

न चामुच्यत शापाद्वै क्षयं चैवाधिगच्छति।
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे।।

निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः।
ओषधीनां क्षये जाते प्राणिनामपि सङ्क्षयः।।

कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे।
ततो देवाः समागम्य सोममूचुर्महीपते।।

किमिदं भवतो रूपमीदृशं सम्प्रकाशते।
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम्।।

श्रुत्वा तु कारणं त्वत्तो विधास्यामस्ततो वयम्।
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः।।

शापस्य कारमं चैव यक्ष्माणं च तथाऽऽत्मनः।
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाऽब्रुवन्।।

प्रसीद भगवन्सोमे शापोऽयं विनिवर्त्यताम्।
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते।।

क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम्।
वीरुदोषधयश्चैव बीजानि विविधानि च।
तथा नरा लोकगुरो प्रसादं कर्तुमर्हसि।।

एवमुक्तस्ततो देवान्प्राह वाक्यं प्रजापतिः।
नैतच्छक्यं मम वचो व्यावर्तयितुमञ्जसा।।

हेतुना तु महाभागा निवर्तिष्यति केनचित्।
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः।।

सरस्वत्या वरे तीर्थे निमज्जञ्शशलक्षणः।
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम।।

मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति।
मासार्धं तु पुनर्वृद्विं सत्यमेतद्वचो मम।।

समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम्।
आराधयतु देवेशं ततः कान्तिमवाप्स्यति।।

सरस्वतीं ततः सोमः स जगामर्षिशासनात्।
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह।।

अमावास्यां महातेजास्तत्रामज्जन्महाद्युतिः।
लोकान्प्रभासयामास शीतांशुत्वमवाप च।।

देवास्तु सर्वे राजेन्द्र प्रसादं प्राप्य पुष्कलम्।
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन्।।

ततः प्रजापतिः सर्वा विससर्जाथ देवताः।
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत्।।

मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन।
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम।।

स विसृष्टो महाराज जगामाथ स्वमालयम्।
प्रजाश्च मुदिता भूत्वा ईजिरे च यथा पुरा।।

एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः।
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत्।।

अमावास्यां महाराज नित्यशः शशलक्षणः।
स्नात्वाह्याप्यायते श्रीमान्प्रभासे तीर्थउत्तमे।।

अतश्चैतत्प्रजानन्ति प्रभासमिति भूमिप।
प्रभां हि परमां लेभे तस्मिंश्चामज्ज्य चन्द्रमाः।।

`लोकान्प्रभासयामास पुपोष च वपुस्तथा।
तत्र स्नात्वा हलीरामो दत्वा प्रीतोऽथ दक्षिणाः'।।

ततस्तु चमसोद्भेदमभीतस्त्वगमद्बली।
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत।।

तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः।
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा।।

उदपानमथागच्छत्त्वरावान्केशवाग्रजः।
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महाबलः।।

स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय।
जानन्ति सिद्धा राजेन्द्र निगूढां तां सरस्वतीम्।।

।। इति श्रीमन्महाभारते
शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टादशदिवसयुद्धे षट्‌त्रिंशोऽध्यायः।। 36 ।।