शल्यपर्व

अध्यायः ३४

Salya Parva (Sanskrit) · Adhyaya 34
अक्षर का आकार

सञ्जय उवाच।

xxxxxxxxxxxसुसंवृत्ते सुदारुणे।
xxxxxxxxxxx पाण्डवेषु महात्मसु।।

ततस्तालध्वजके रामस्तयोर्युद्ध उपस्थिते।
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः।।

तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः।
उपगम्योपसङ्गृह्य विधिवत्प्रत्यपूजयन्।।

पूजयित्वा ततः पश्चादिदं वचनमब्रुवन्।
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव।।

अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम्।
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम्।।

राम उवाच।

चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै।
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः।
शिष्ययोर्वै गदायुद्धं द्रुष्टुकामोऽस्मि माधव।।

ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम्।
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम्।।

कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम्।
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ।।

माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः।
अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम्।।

भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप।
तथैव चोद्यतगदौ पूजयामासतुर्बलम्।।

स्वागतेन च ते तत्र प्रतिपूज्य पुनःपुनः।
पश्य युद्धं महाबाहो इति ते राममब्रुवन्।।

एवमुचुर्महात्मानं रौहिणेयं नराधिपाः।।

परिष्वज्य तदा रामः पाण्डवान्सह सृञ्जयान्।
अपृच्छत्कुशलं सर्वान्पार्थिवांश्चामितौजसः।
तथैव ते समासाद्य पप्रच्छुस्तमनामयम्।।

प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महात्मनः।
कृत्वा कुशलसम्प्रश्नं संविदं च यथावयः।।

जनार्दनं सात्यकिं च प्रेम्णा सम्परिषस्वजे।
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत।।

तौ च तं विधिवद्राजन्पूजयामासतुर्गुरुम्।
ब्रह्माणामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ।।

ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम्।
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत।।

तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः।
न्यविशत्परमप्रीतः पूज्यमानो महारथैः।।

स बभौ राजमध्यस्थो नीलवासाः सितप्रभः।
दिवीव नक्षत्रगणैः परिवीतो निशाकरः।।

ततस्तयोः सन्निपातस्तुमुलो रोमहर्षणः।
आसीदन्तकरो राजन्वैरस्यान्तं विधित्सतोः।।

।। इति श्रीमन्महाभारते
शल्यपर्वणि ह्रदप्रवशपर्वणि
अष्टादशदिवसयुद्धे चतुस्त्रिंशोऽध्यायः।। 34 ।।