शल्यपर्व

अध्यायः ३०

Salya Parva (Sanskrit) · Adhyaya 30
अक्षर का आकार

`सञ्जय उवाच।

मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत।
मत्तवारणसंघुष्टं शिबिरं विद्रुते बले।।

यत्र शब्देन महता नान्वबुध्यन्महारथाः।
तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्यचित्'।।

धृतराष्ट्र उवाच।

हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे।
मामकाश्चावशिष्टास्ते किमकुर्वत सञ्जय।।

कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान्।
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा।।

सञ्जय उवाच।

सम्प्राद्रुवत्सु दारेषु क्षत्रियाणां महात्मनाम्।
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः।।

निशम्य पाण्डुपुत्राणां तदा वैजयिनां स्वनम्।
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्विनः।
स्थानं नारोचयंस्तत्र ततस्ते हदमभ्ययुः।।

युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे।
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया।।

मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः।
यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम्।।

यदा दुर्योधनो युद्धं त्यक्त्वा पद्भ्यां पराक्रममत्।
तं हदं प्राविशच्चापि विष्टभ्यापः स्वमायया।।

यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः।
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त ससैनिकाः।।

ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः।
सन्निविष्टेषु पार्थेषु प्रययुस्तं हदं शनैः।।

ते तं हदं समासाद्य यत्र शेते जनाधिपः।
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि।।

राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम्।
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि।।

तेषामपि बलं सर्वं हतं दुर्योधन त्वया।
प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः।।

न ते वेगं विषहितुं शक्तास्तव विशाम्पते।
अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत।।

दुर्योधन उवाच।

दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात्।
पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान्।।

विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः।
भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः।
उदीर्णं च बलं तेषां तेन युद्धं न रोचये।।

न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः।
अस्मासु च परा शक्तिर्न तु कालः पराक्रमे।।

विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे।
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न स्याच्च श्रमो मम।।

सञ्जय उवाच।

एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम्।
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो वयं परान्।।

इष्टापूर्तेन दानेन सत्येन च जपेन च।
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान्।।

मा स्म यज्ञकृतां प्रीतिमाप्नुयां सज्जनोचिताम्।
यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे।।

नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो।
उत्तिष्ठ त्वं ब्रवीम्येतत्तन्मे शृणु जनाधिप।।

तेषु सम्बाषमाणेषु व्याधास्तं देशमाययुः।
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया।।

ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः।
मांसभारानुपाजह्नुर्भक्त्या परमया विभो।।

ते तत्र धिष्ठितास्तेषां सर्वं तद्वचनं रहः।
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः।।

तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे।
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः।।

तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान्।
अयुद्धमनसं चैव राजानं स्थितमम्भसि।।

तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः।
व्याधा ह्यजानन्राजेन्द्र सलिलस्थं सुयोधनम्।।

ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव।
यदृच्छोपगतास्तत्र राजानं परिमार्गता।।

ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा।
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिव।।

दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः।
सुव्यक्तमिह नः ख्यातो हदे दुर्योधनोनृपः।।

तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः।
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम्।।

धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते।
शयानं सलिले सर्वे कथयामो धनुर्भृते।।

स नो दास्यति सुप्रीतो धनानि बहुलान्युत।
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा।।

एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः।
मांसभारानुपादाय प्रययुः शिबिरं प्रति।।

पाण्‍डवाश्च महाराज लब्धलक्षाः प्रहारिणः।
अपश्यमानाः समरे दुर्योधनमवस्थितम्।।

निकृतिज्ञस्य पापस्य तस्याभिगमनेप्सया।
चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरे।।

आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम्।
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः।।

तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ।
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः।।

`अरिशेषे जीवति तु सन्दिग्धो विजयो भवेत्।
राज्यं लभे कथं तद्वि पूजितं विजयादिभिः'।।

अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ।
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो।।

आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम्।
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः।।

ते तु पाण्डवमासाद्य भीमसेनं महाबलम्।
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम्।।

ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु।
धर्मराजाय तत्सर्वमाचचक्षे परन्तपः।।

असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः।
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे।।

तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशाम्पते।
अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः।।

तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलहदे।
क्षिप्रमेव ततोऽगच्छन्पुरस्कृत्य जनार्दनम्।।

ततः किलकिलाशब्दः प्रादुरासीद्विशाम्पते।
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः।।

सिंहनादांस्ततश्चक्रुः क्ष्वेडाश्च भरतर्षभ।
त्वरिताः क्षत्रिया राजन्नुदक्रोशन्परस्परम्।।

ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे।
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः।।

तेषामाशु प्रयातानां रथानां तत्र वेगिनाम्।
वभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते।।

दुर्योधनं परीप्सन्तस्तत्रतत्र युधिष्ठिरम्।
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः।।

अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ।
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः।।

उत्तमौजा युधामन्युः सात्यकिश्च महारथः।
पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत।
हयाश्च सर्वे नागाश्च शतशश्च पदातयः।।

ततः प्राप्तो महाराज धर्मराजः प्रतापवान्।
द्वैपायनहदं घोरं यत्र दुर्योधनोऽभवत्।।

शीतामलजलं हृद्यं द्वितीयमिव सागरम्।
मायया सलिलं स्तभ्य यत्राभूत्ते स्थितः सुतः।।

अत्यद्भुतेन विधिना दैवयोगेन भारत।
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो।

मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः।।

ततो दुर्योधनो राजा सलिलान्तर्गतो वसन्।
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम्।।

युधिष्ठिरश्च राजेन्द्र तं हदं सह सोदरैः।
आजगाम महाराज तव पुत्रवधाय वै।।

महता शङ्खनादेन रथनेमिस्वनेन च।
ऊर्ध्वं धुन्वन्महारेणुं कम्पयंश्चापि मेदिनीम्।।

यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः।
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन्।।

इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः।
अपयास्यामहे तावदनुजानातु नो भवान्।।

दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र तरस्विनाम्।
तथेत्युक्त्वा हदं तं वै माययाऽस्तम्भयत्प्रभो।।

ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः।
जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः।।

ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष।
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति।।

विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः।
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः।।

कथं नु युद्धं भविता कथं राजा भविष्यति।
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम्।।

इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान्विमुच्य ते।
तत्रासाञ्चक्रिरे राजन्कृपप्रभृतयो रथाः।।

।। इति श्रीमन्महाभारते
शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टादशदिवसयुद्धे त्रिंशोऽध्यायः।। 30 ।।