शल्यपर्व

अध्यायः २७

Salya Parva (Sanskrit) · Adhyaya 27
अक्षर का आकार

सञ्जय उवाच।

तस्मिन्प्रवृत्ते सङ्ग्रामे गजवाजिनरश्रो
शकुनिः सौबलो राजन्सहदेवं xxxxxxयात्।।

ततोऽस्यापततस्तूर्णं सहदेवः पतापवान्।
शरौघान्प्रेषयामास पतङ्गानिव शीघ्रगान्।
उलूकं च रणे राजन्विव्याध दशभिः शरैः।।

शकृनिश्च महाराज भीमं विद्ध्वा त्रिभिः शरैः।
नवत्या निशितैर्बाणैः सहदेवमवाकिरत्।।

ते शूराः समरे राजन्समासाद्य परस्परम्।
विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः।
स्वर्णपुङ्खैः शिलधौतैराकर्णप्रहितैः शरैः।।

तेषां चापगुणोत्सृष्टा शरवृष्टिर्विशाम्पते।
आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः।।

ततः क्रुद्धो रणे भीमः सहदेवश्च भारत।
चेरतुः कदनं सङ्ख्ये कुर्वन्तौ सुमहाबलौ।।

ताभ्यां शरशतैश्छनं तद्बलं तव भारत।
सान्धकारमिवाकाशमभवत्तत्रतत्र ह।।

अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशाम्पते।
तत्रतत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून्।।

निहतानां हयानां च सहैव हयसादिभिः।
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष।।

ऋष्टिभिः शक्तिभिश्चैव सासिप्रासपरश्वथैः।
सञ्छन्ना पृथिवी जज्ञे कुसुमैः शबला इव।।

योधास्तत्र महाराज समासाद्य परस्परम्।
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम्।।

उद्वृत्तनयनै रोषात्सन्दष्टौष्ठपुटैर्मुखैः।
सकुण्डलैर्मही च्छन्ना पद्मकिञ्चल्कसन्निभैः।।

भुजैश्छिन्नैर्महाराज नागराजकरोपमैः।
साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वथैः।।

कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि।
क्रव्यादगणसञ्छन्ना घोराऽभूत्पृथिवी विभो।।

अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे।
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम्।।

एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान्।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम्।।

स विह्वलो महाराज रथोपस्थ उपाविशत्।।

सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान्।
सर्वसैन्यानि सङ्क्रुद्धो वारयामास भारत।।

निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः।
स निर्भिद्याकरोच्चैव सिंहनादमरिन्दमः।।

तेन शभ्देन वित्रस्ताः सर्वे सहयवारणाः।
प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः।।

प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत्।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः।।

इह कीर्ति समाधाय प्रेत्य लोकान्समश्नुते।
प्राणाञ्जहाति यो धीरो युद्धे पृष्ठमदर्शयन्।।

एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः।
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम्।।

द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः।
क्षुब्धसागरसङ्काशः क्षुभितैः सर्वतो दिशम्।।

तांस्ततः पुरतो दृष्ट्वा सौबलस्य पदानुगान्।
प्रत्युद्ययुर्महाराज पाण्डवा विजयोद्यताः।।

प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम्पते।
शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः।
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव।।

अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः।
विव्याध नकुलं षष्ट्या भीमसेनं च सप्ताभिः।।

उलूकोऽपि महाराज भीमं विव्याध सप्तभिः।
सहदेवं च सप्तत्या परीप्सन्पितरं रणे।।

तं भीमसेनः समरे विव्याध नवभिः शरैः।
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः।।

ते हन्यमाना भीमेन नाराचैस्तैलपायितैः।
सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः।
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः।।

ततोऽस्यापततः शूरः सहदेवः प्रतापवान्।
उलूकस्य महाराज भल्लेनापाहरच्छिरः।।

स जगाम रथाद्भूमिं सहदेवेन पातितः।
रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि।।

पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत।
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन्।।

चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन्।
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः।।

तानपास्य शरान्मुक्ताञ्शरसङ्घैः प्रताम्पवान्।
सहदेवो महाराज धनुश्चिच्छेद संयुगे।।

छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा।
प्रगृह्य विपुलं खङ्गं सहदेवाय प्राहिणोत्।।

तमापतन्तं सहसा घोररूपं विशाम्पते।
द्विधा चिच्छेद समरे सौबलस्य हसन्निव।।

असिं दृष्ट्वा द्विधा च्छिन्नं प्रगृह्य महतीं गदाम्।
प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि।।

ततः शक्तिं महाघोरां कालरात्रीमिवोद्यताम्।
प्रेषयामास सक्रुद्धः पाण्डवं प्रति सौबलः।।

तामापतन्तीं सहसा शरैः कनकभूषणैः।
त्रिधा चिच्छेद समरे सहदेवो हसन्निव।।

सा पपात त्रिधा च्छिन्ना भूमौ कनकभूषणा।
शीर्यमाणा यथा दीप्ता गगनाद्वै शतहदा।।

शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम्।
दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः।।

अथोत्क्रुष्टं महच्चासीत्पाण्डवैर्जितकाशिभिः।
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाऽभवन्।।

तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान्।
शरैरनेकसाहस्रैर्वारयामास संयुगे।।

ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम्।
आससाद रमे यान्तं सहदेवोऽथ सौबलम्।।

स्वमंशमवशिष्टं तं संस्मृत्य शकुनिं नृप।
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात्।।

अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः।
स सौबलमभिद्रुत्य गार्ध्रपत्रैः शिलाशितैः।।

भृशमभ्यहन्त्कुद्धस्तोत्रैरिव महाद्विपम्।
उवाच चैनं मेधावी विगृह्य स्मारयन्निव।।

क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव।
यत्तदा भाषसे मूढ गृह्णन्नक्षान्सभातले।
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते।।

निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा।
दुर्योधनः कुलाङ्गारः शिष्टस्त्वं चास्य मातुलः।।

अद्य ते निहनिष्यामि क्षुरेणोन्मथितं शिरः।
वृक्षात्फलमिवाविद्वं लगुडेन प्रमाथिना।।

एवमुक्त्वा महाराज सहदेवो महाबलः।
सङ्क्रुद्धो रणशार्दूलो वेगेनाभिजगाम तम्।।

अभिगम्य सुदुर्धर्षः सहदेवो युधां पतिः।
विकृष्य बलवच्चापं क्रोधेन प्रज्वलन्निव।।

शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः।
छत्रं ध्वजं धनुश्चास्य च्छित्त्वा सिंह इवानदत्।।

छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः।
कृतो विद्धश्च बहुभिः सर्वमर्मसु सायकैः।।

ततो भूयो महाराज सहदेवः प्रतापवान्।
शकुनेः प्रेषयान्मास शरवृष्टिं दुरासदाम्।।

ततस्तु क्रुद्धः सुबलस्य पुत्रो
माद्रीसुतं सहदेवं विमर्दे।
प्रासेन जाम्बूनदभूषणेन
जिघांसुरेकोऽभिपपात शीघ्रम्।।

माद्रीसुतस्तस्य समुद्यतं तं
प्रासं सुवृत्तौ च भुजौ रणाग्रे।
भल्लैस्त्रिभिर्युगपत्सञ्चकर्त
ननाद चोच्चैस्तरसाऽऽजिमध्ये।।

तस्याशुकारी सुसमाहितेन
सुवर्णपुङ्खेन दृढायसेन।
भल्लेन सर्वावरणातिगेन
शिरः शरीरात्प्रममाथ भूयः।।

शरेण कार्तस्वरभूषितेन
दिवाकराभेण सुसंहितेन।
हृतोत्तमाङ्गो युधि पाण्डवेन
पपात भूमौ सुबलस्य पुत्रः।।

स तच्छिरो वेगवता शरेण
सुवर्णपुङ्खेन शिलाशितेन।
प्रावेरयत्कुपितः पाण्डुपुत्रो
यत्तत्कुरूणामनयस्य मूलम्।।

भुजौ सुवृत्तौ प्रचकर्त वीरः
पश्चात्कबन्धं रुधिरावसिक्तम्।
विस्पन्दमानं निपपात घोरं
रथोत्तमात्पार्थिव पार्थिवस्य।।

हृतोत्तमाङ्गं शकुनिं समीक्ष्य
भूमौ शयानं रुधिरार्द्रगात्रम्।
योधास्त्वदीया भयनष्टसत्वा
दिशः प्रजग्मुः प्रगृहीतशस्त्राः।।

प्रविद्रुताः शुष्कमुखा विसञ्ज्ञा
गाण्डीवघोषेण समाहताश्च।
भयार्दिता भग्नरथाश्वनागाः
पदातयश्चैव सधार्तराष्ट्राः।।

ततो रथाच्छकुनिं पातयित्वा
मुदान्विता भारत पाण्डवेयाः
शङ्कान्प्रदध्युः समरेऽतिहृष्टाः
सकेशवाः सैनिकान्हर्षयन्तः।।

तं चापि सर्वे प्रतिपूजयन्तो
दृष्ट्वा ब्रुवाणाः सहदेवमाजौ।
दिष्ट्या हतो नैकृतिको महात्मा
सहात्मजो वीर रणे त्वयेति।।

।। इति श्रीमन्महाभारते
शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे सप्तविंशोऽध्यायः।। 27 ।।