शल्यपर्व
अध्यायः १४
सञ्जय उवाच।
दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः।
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम्।।
ततो राजन्समापेतुः शरधाराः सहस्रशः।
अम्बुदानां यथा काले जलधाराः समन्ततः।।
राजा च पार्षतं विद्ध्वा शरैः पञ्चभिराशुगैः।
द्रोणहन्तारमुग्रेषुं पुनर्विव्याध सप्तभिः।।
धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः।
सप्तत्या विशिखानां वै दुर्योधनमपीडयत्।।
पीडितं वीक्ष्य राजानं सोदर्या भरतर्षभ।
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम्।।
स तैः परिवृतः शूरः सर्वतोऽतिरथै र्भृशम्।
व्यचरत्समरे राजन्दर्शयन्नस्त्रलाघवम्।।
शिखण्डी कृतवर्माणं गौतमं च महारथम्।।
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ।।
तत्रापि सुमहद्युद्धं घोररूपं विशाम्पते।
प्राणान्सन्तजतां युद्धे प्राणद्यूताभिदेवने।।
शल्यः सायकवर्षाणि विमुञ्जन्सर्वतोदिशम्।
पाण्डवान्पीडयामास ससात्यकिवृकोदरान्।।
तथा तौ तु यमौ यमतुल्यपराक्रमौ।
योधयामास राजेन्द्र वीर्येणास्त्रबलेन च।।
शल्यसायकनुन्नानां पाण्डवानां महामृधे।
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः।।
ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते।
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः।।
सञ्छाद्य समरे वीरं नकुलः परवीरहा।
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे।।
सर्वपारसवैर्बाणैः कर्मारपरिमार्जितैः।
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः।।
शल्यस्तु पीडितस्तेन स्वस्रीयेण हि मातुलः।
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः।।
ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः।
सहदेवश्च माद्रेणो मद्रराजमुपाद्रवन्।।
तानापतत एवाशु पूरयाणान्रथस्वनैः।
दिशश्च विदिशश्चैव कम्पयानांश्च मेदिनीम्।
प्रतिजग्राह समरे सेनापतिरमित्रजित्।।
युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च पञ्चभिः।
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः।।
ततस्तु सशरं चापं नकुलस्य महात्मनः।
मद्रेश्वरः क्षुरप्रेण मध्ये चिच्छेद मारिष।।
तदपास्य धनुश्छिन्नं ततः शल्यस्य सायकैः।
अथान्यद्धनुरादाय माद्रीपुत्रो महारथः।
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः।।
युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष।
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम्।।
भीमसेनस्तु तं षष्ट्या सात्यकिर्दशभिः शरैः।
मद्रराजमभिद्रुत्य जघ्नतुः xxङ्कपत्रिभिः।।
मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः।
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम्।।
अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष।
हयांश्च चतुरः सङ्ख्ये प्रेषयामास मृत्यवे।।
विरथं सात्यकिं कृत्वा मद्रराजो महारथः।
विशिखानां शतेनैनमाजघान समन्ततः।।
माद्रीपुत्रं च संरब्धो भीमसेनं च पाण्डवम्।
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः।।
तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम्।
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे।।
अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः।
पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान्।
अभिदुद्राव वेगेन मद्राणामधिपं बलात्।।
आपतन्तं रथं तस्य शल्यः समितिशोभनः।
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम्।।
स सन्निपातस्तुमुलो बभूवाद्भुतदर्शनः।
सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च।
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः।।
सात्यकिः प्रेक्ष्य समरे मद्रराजमवस्थितम्।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत्।।
मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना।
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः।।
ततः पार्था महेष्वासाः सात्वताऽभिसृतं नृपम्।
अभ्यवर्तन्रथैस्तूर्णं मातुलं वधकाङ्क्षया।।
तत आसीत्परामर्दस्तुमुलः शोणितोदकः।
शूराणां युध्यमानानां सिंहानामिव नर्दताम्।।
तेषामासीन्महाराज व्यधिक्षेपः परस्परम्।
सिंहानामामिषेप्सूनां कूजतामिव संयुगे।।
तेषां बाणसहस्रौघैराकीर्णा वसुधाऽभवत्।
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा।।
शरान्धकारं सहसा कृतं तेन समन्ततः।
अभ्रच्छायेव सञ्जज्ञे शरैर्मुक्तैर्महात्मभिः।।
तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नैगः।
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तदा।।
तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः।
यदेकः समरे शूरो योधयामास वै बहून्।।
मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः।
सम्पतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी।।
तत्र शल्यरथं राजन्विचरन्तं महाहवे।
अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये।।
।। इति श्रीमन्महाभारते
शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे चतुर्दशोऽध्यायः।। 14 ।।