सभापर्व

अध्यायः ९८

Sabha Parva (Sanskrit) · Adhyaya 98
अक्षर का आकार

वैशम्पायन उवाच।।

ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्।
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः।।

उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर।
एहि पाण्डव दीव्येति पिता त्वाह नराधिपः।।

युधिष्ठिर उवाच।।

धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम्।
न निवृत्तिस्तयोरस्ति देवतव्यं पुनर्यदि।।

अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च।
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे।।

वैशम्पायन उवाच।।

असम्भवो हेममयस्य जन्तो-
स्तथापि रामो लुलुभे मृगाय।
प्रायः समासन्नपराभवाणां
धियो विपर्यस्ततरा भवन्ति।।

इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः।
जानांश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः।।

विविशुस्ते सभां तां तु पुनरेव महारथाः।
व्यथयन्ति स्म चेतांसि मुहृदां भरतर्षभाः।।

यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये।
सर्वलोकविनाशाय दैवेनोपनिपीडिताः।।

शकुनिरुवाच।।

अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत्।
महाधनं ग्लहं त्वेकं शृणु भो भरतर्षभ।।

वयं वा द्वादशाब्दानि युष्माभिर्द्यूतनिर्जिताः।
प्रविशेम महारण्यं रौरवाजिनवाससः।।

त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम्।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश।।

अस्माभिर्निर्जिता यूयं वने द्वादश वत्सरान्।
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः।।

त्रयोदशं च स्वजनैरज्ञाताः पिरवत्सरम्।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश।।

त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्।
स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः।।

अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर।
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत।।

अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा।
ऊचुरुद्विग्नमनसः संवेगात्सर्व एव हि।।

सभ्या ऊचुः।

अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम्।
बुद्ध्या बुद्ध्येन्न वा बुद्ध्येदयं वै भरतर्षभ।।

वैशम्पायन उवाच।।

जनप्रवादान्सुबहूञ्शृण्वन्नपि नराधिपः।
ह्रिया च धर्मसंयोगात्पार्थो द्यूतमियात्पुनः।।

जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत्।
अप्यासन्नो विनाशः स्यात्कुरूणामितिचिन्तयन्।।

युधिष्ठिर उवाच।।

कथं वै मद्विधो राजा स्वधर्ममनुपालयन्।
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया।।

शकुनिरुवाच।।

गवाश्वं बहुधेनुकमपर्यन्तमजाविकम्।
गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः।।

हित्वा नो ग्लह एवैको वनवासाय पाण्डवाः।
यूयं वयं वा विजिता वसेम वनमाश्रिताः।।

त्रयोदशं च वै वर्णमज्ञाताः स्वजनैस्तथा।
अनेन व्यवसायेन दीव्याम पुरुषर्षभाः।

समुत्क्षेपेण चैकेन वनवासाय भारत।।

` वैशम्पायन उवाच।।

एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः।
भीष्मद्रोणाऽऽवार्यमाणो विदुरेण च धीमता।।

युयुत्सुना कृपेणाथ सञ्जयेन च भारत।
गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा।।

विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा।
सोमदत्तेन च तथा बाह्लीकेन च धीमता।।

वार्यमाणोपि सततं न च राजन्नियच्छति।
एवं संवार्यमाणोपि कौन्तेयो हितकाम्यया।।

देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिमाविशत्।
अविष्टः कलिना राजञ्छकुनिं प्रत्यभाषत।।

एवं भवत्विति तदा वनवासाय दीव्यति'।
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः।।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत।।

।। इति श्रीमन्महाभारते सभापर्वणि
अनुद्यूतपर्वणि अष्टनवतितमोऽध्यायः।। 98 ।।